देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम्। कृत्वा वसुमतीं राम संवत्सरमुपासत॥ १॥ ऊर्ध्वबाहुर्निरलम्बो वायुभक्षो निराश्रयः। अचलः स्थाणुवत् स्थित्वा रत्रिंन्दिवमरिन्दम॥ २॥ अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः। उमापतिः पशुपती राजानमिदमब्रवीत्॥ ३॥ प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम्। शिरसा धारयिष्यामि शैलराजसुतामहम्॥ ४॥ ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता। तदा सा सुमहद्रूपं कृत्वा वेगं च दुःसहम्॥ ५॥ आकाशादपतद्गङ्गा शिवे शिवशिरस्युत। अचिन्तयच्च सा देवी गङ्गा परमदुर्धरा॥ ६॥ विशाम्यहं हि पातालं स्त्रोतसा गृह्य शङ्करम्। तस्या वलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः॥ ७॥ तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा। सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि॥ ८॥ हिमवत्प्रतिमे राम जटामण्डलगह्वरे। सा कथंचिन्महीं गन्तुं नाशक्नोद् यत्नमास्थिता॥ ९॥ नैव निर्गमनं लेभे जटामण्डलमोहिता। तत्रैवाबभ्रमद् देवी संवत्सरगणान् बहून्॥ १०॥ तामपश्यत् पुनस्तत्र तपः परममास्थितः। स तेन तोषितश्चाभूदत्यर्थं रघुनन्दन॥ ११॥ विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति। तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे॥ १२॥ ह्लादिनी पावनी चैव नलिनी च तथा परा। तिस्रः प्राचीं दिशं जग्मुर्गङ्गाः शिवजलाः शुभाः॥ १३॥ सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी। तिस्रस्त्वेता दिशं जग्मुः प्रतीचीं तु शुभोदकाः॥ १४॥ तथैवालकनन्दा च विश्रुता लोकपावनी। सप्तमी चान्वगात् तासां भगीरथरथं तदा॥ १५॥ भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः। प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत्॥ १६॥ गगनाच्छङ्करशिरस्ततो धरणिमागता। व्यसर्पत जलं तत्र प्रतिशब्दपुरस्कृतम्॥ १७॥ मत्स्यकच्छपसङ्घैश्च शिंशुमारगणैस्तथा। पतद्भिः पतितैश्चान्यैर्व्यरोचत वसुंधरा॥ १८॥ ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास्तथा। व्यलोकयन्त ते तत्र गगनाद्गां गतां तदा॥ १९॥ विमानैर्नगराकारैर्हयैर्गजवरैस्तथा। पारिप्लवगतैश्चापि देवतास्तत्र विष्ठिताः॥ २०॥ तमद्भुततमं लोके गङ्गापतनमुत्तमम्। दिदृक्षवो देवगणाः समीयुरमितौजसः॥ २१॥ सम्पतद्भिः सुरगणैस्तेषां चाभरणौजसा। शतादित्यमिवाभाति गगनं गततोयदम्॥ २२॥ शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः। विद्युद्भिरिव विक्षिप्तैराकाशमभवत् तदा॥ २३॥ पाण्डरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा। शारदाभ्रैरिवाकीर्णं गगनं हंससम्प्लवैः॥ २४॥ क्वचिद् द्रुततरं याति कुटिलं क्वचिदायतम्। विनतं क्वचिदुद्भूतं क्वचिद् याति शनैः शनैः॥ २५॥ सलिलं सलिलेनैव क्वचिदभ्याहतं पुनः। मुहुरूर्ध्वपथं गत्वा पपात वसुधातलम्॥ २६॥ तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः। व्यरोचत तदा तोयं निर्मलं गतकल्मषम्॥ २७॥ तत्र देवर्षिगणगन्धर्वा वसुधातलवासिनः। भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः॥ २८॥ शापात् प्रपतिता ये च गगनाद् वसुधातलम्। कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः॥ २९॥ धूतपापाः पुनस्तेन गङ्गातोयेन भस्वता। पुनराकाशमाविश्य स्वाँल्लोकान् प्रतिपेदिरे॥ ३०॥ मुमुदे मुदितो लोकस्तेन तोयेन भास्वता। कृताभिषेको गङ्गायां बभूव विगतक्लमः॥ ३१॥ भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः। प्रायादग्रे महाराजास्तं गङ्गा पृष्ठतोऽन्वगात्॥ ३२॥ देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः। गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥ ३३॥ सर्वाश्चाप्सरसो राम भगीरथरथानुगाम्। गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये॥ ३४॥ यतो भगीरथो राजा ततो गङ्गा यशस्विनी। जगाम सरितां श्रेष्ठा सर्वपापप्रणाशिनी॥ ३५॥ ततो हि यजमानस्य जह्नोरद्भुतकर्मणः। गङ्गा सम्प्लावयामास यज्ञवाटं महत्मनः॥ ३६॥ तस्या वलेपनं ज्ञात्वा क्रुद्धो यज्वा तु राघव। अपिबच्च जलं सर्वं गङ्गयाः परमाद्भुतम्॥ ३७॥ ततो देवाः सगन्घर्वा ऋषयश्च सुविस्मिताः। पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम्॥ ३८॥ गङ्गां चानुनयन्ति स्म दुहितृत्वे महात्मनः। ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् पुनः॥ ३९॥ तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च। जगाम च पुनर्गङ्गा भगीरथरथानुगा॥ ४०॥ सागरं चापि सम्प्रप्ता सा सरित्प्रवरा तदा। रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः॥ ४१॥ भगीरथोऽपि राजार्षिर्गङ्गामादाय यत्नतः। पितमहान् भस्मकृतानपश्यद् दीनचेतनः॥ ४२॥ अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम्। प्लावयद्धूतपाप्मानः स्वर्गं प्राप्ता रघूत्तम॥ ४३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे गङ्गावतरणं नाम त्रिचत्वारिंशः सर्गः ॥१-४३॥