विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः। विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत्॥ १॥ अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया। गङ्गावतरणं पुण्यं सागरस्यापि पूरणम्॥ २॥ क्षणभूतेव नौ रात्रिः संवृत्तेयं महातपः। इमां चिन्तयतः सर्वां निखिलेन कथां तव॥ ३॥ तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा। जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम्॥ ४॥ ततः प्रभाते विमले विश्वामित्रं महामुनिम्। उवाच राघवो वाक्यं कृताह्निकमरिन्दमः॥ ५॥ गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम्। तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम्॥ ६॥ नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम्। भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता॥ ७॥ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः। सन्तारं कारयामास सर्षिसङ्घः सराघवः॥ ८॥ उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं तदा। गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम्॥ ९॥ ततो मुनिवरस्तूर्णं जगाम सहराघवः। विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा॥ १०॥ अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम्। पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम्॥ ११॥ कतरो राजवंशोऽयं विशालायां महामुने। श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे॥ १२॥ तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुङ्गवः। आख्यातुं तत समारेभे विशालस्य पुरातनम्॥ १३॥ श्रूयतां राम शक्रस्य कथां कथयतः श्रुताम्। अस्मिन् देशे हि यद् वृत्तं शृणु तत्त्वेन राघव॥ १४॥ पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः। अदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः॥ १५॥ ततस्तेषां नरव्याघ्र बुद्धिरासीन्महात्मनाम्। अमरा अजराश्चैव कथं स्याम निरामयाः॥ १६॥ तेषां चिन्तयतां राम बुद्धिरासीन्महात्मनाम्। क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै॥ १७॥ ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम्। मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः॥ १८॥ अथ वर्षसहस्रेण आयुर्वेदमयः पुमान्। उदतिष्ठत् सुधर्मात्मा सदण्डः सकमण्डलुः॥ १९॥ पूर्वं धन्वन्तरी राम अप्सराश्च सुवर्चसः। अप्सु निर्मथनादेव रसात् तस्माद्वराः स्त्रियः॥ २०॥ उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्। षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम्॥ २१॥ असंख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः। न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः॥ २२॥ अप्रतिग्रहणात्ताश्च सर्वाः साधारणाः स्मृताः। वरुणस्य ततः कन्या वारुणी रघुनन्दन।॥ २३॥ उत्पपात महाभागा मार्गमाणा परिग्रहम्। दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम्॥ २४॥ अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम्। असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः॥ २५॥ हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात् सुराः। उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम्॥ २६॥ उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम्। अथ तस्य कृते राम महानासीत् कुलक्षयः॥ २७॥ अदितेस्तु ततः पुत्रा दितेः पुत्रानयोधयन्। एकतोऽभ्यागमन् सर्वे ह्यसुरा राक्षसैः सह॥ २८॥ युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम्। यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः॥ २९॥ अमृतं सोऽहरत् तूर्णं मायामास्थाय मोहिनीम्॥ ४२॥ ये तदाभिमुखं विष्णुमक्षय्यं पुरुषोत्तमम्॥ ३०॥ सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना। अदितेरात्मजा वीरा दितेः पुत्रान् निजघ्निरे।॥ ३१॥ तस्मिन् युद्धे महाघोरे दैतेयादित्ययोर्भृशम्। निहत्य दितिपुत्रांस्तु राज्यं प्राप्य पुरंदरः। शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान्॥ ३२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे अमृतोत्पत्तिः नाम पञ्चचत्वारिंशः सर्गः ॥१-४५॥