हतेषु तेषु पुत्रेषु दितिः परमदुःखिता। मारीचं कश्यपं राम भर्तारमिदमब्रवीत्॥ १॥ हतपुत्रास्मि भगवंस्तव पुत्रैर्महाबलैः। शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोर्जितम्॥ २॥ साहं तपश्चरिष्यामि गर्भमाधातुमर्हसि। बलवन्तं महोष्वासं स्थितिज्ञं समदर्शिनम्॥ ३॥ ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि। तस्यास्तद्वचनं श्रुत्वा मारीचः कश्यपस्तदा॥ ४॥ प्रत्युवाच महातेजा दितिं परमदुःखिताम्। एवं भवतु भद्रं ते शुचिर्भव तपोधने॥ ५॥ जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे। पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि॥ ६॥ पुत्रं त्रैलोक्यभर्तारं मत्तस्त्वं जनयिष्यसि। एवमुक्त्वा महातेजाः पाणिना स ममार्ज ताम्॥ ७॥ समालभ्य ततः स्वस्तीत्युक्त्वा तपसे ययौ। गते तस्मिन् नरश्रेष्ठ दितिः परमहर्षिता॥ ८॥ कुशप्लवं समासाद्य तपस्तेपे सुदारुणम् तपस्तस्यां हि कुर्वत्यां परिचर्यां चकार ह॥ ९॥ सहस्राक्षो नरश्रेष्ठ परया गुणसम्पदा। अग्निं कुशान् काष्ठमपः फलं मूलं तथैव च॥ १०॥ न्यवेदयत् सहस्राक्षो यच्चान्यदपि काङ्क्षितम्। गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा॥ ११॥ शक्रः सर्वेषु कालेषु दितिं परिचचार ह। पूर्णे वर्षसहस्रे तु दशोने रघुनन्दन॥ १२॥ दितिः परमसंप्रीता सहस्राक्षमथाब्रवीत्। तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर॥ १३॥ अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः। तमहं त्वत्कृते पुत्रं समाधास्ये जयोत्सुकम्॥ १४॥ त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वरः। याचितेन सुरश्रेष्ठ तव पित्रा महात्मना॥ १५॥ वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति। एवमुक्त्वा च दितिः शक्रं प्राप्ते मध्यं दिवाकरे॥ १६॥ निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः। दृष्ट्वा तामशुचिं शक्रः पादतः कृतमूर्धजाम्॥ १७॥ शिरःस्थाने कृतौ पादौ जहास च मुमोद च। तस्याः शरीरविवरं विवेश च पुरंदरः॥ १८॥ गर्भं च सप्तधा राम बिभेद परमात्मवान्। भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा॥ १९॥ रुरोद सुस्वरं राम ततो दितिरबुध्यत मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत॥ २०॥ बिभेद च महातेजा रुदन्तमपि वासवः। न हन्तव्यो न हन्तव्य इत्येव दितिरब्रवीत्॥ २१॥ निष्पपात ततः शक्रो मातुर्वचनगौरवात्। प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत॥ २२॥ अशुचिर्देवि सुप्तासि पादयोः कृतमूर्धजा॥ २३॥ तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे। अभिन्दं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि। ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे दितिगर्भभेदो नम षट्चत्वारिंशः सर्गः ॥१-४६॥