home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

अष्टचत्वारिंशः सर्गः ॥१-४८॥

॥शक्राहल्याशापः॥

[ राज्ञा सत्कृतस्यैकरात्रौ विशालायां कृतवासस्य मुनिसहितस्य श्रीरामस्य मिथिलायामुपस्थानं तत्रत्य- शून्याश्रमविषये श्रीरामस्य जिज्ञासामधिगम्य विश्वा- मित्रेण गौतमपल्या अहल्यायाः शापप्राप्तेर्वृत्तान्तस्य वर्णनम् ]

पृष्ट्वा तु कुशलं तत्र परस्परसमागमे। कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम्॥ १॥ इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ। गजसिंहगती वीरौ शार्दूलवृषभोपमौ॥ २॥ पद्मपत्रविशालाक्षौ खड्गतूणिधनुर्धरौ। अश्विनाविव रूपेण समुपस्थितयौवनौ॥ ३॥ यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ। कथं पद‍्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने॥ ४॥ भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्। परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः॥ ५॥ किमर्थं च नरश्रेष्ठौ सम्प्राप्तौ दुर्गमे पथि। वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः॥ ६॥ तस्य तद् वचनं श्रुत्वा यथावृत्तं न्यवेदयत्। सिद्धाश्रमनिवासं च राक्षसानां वधं यथा। विश्वामित्रवचः श्रुत्वा राजा परमविस्मितः॥ ७॥ अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ। पूजयामास विधिवत् सत्कारार्हौ महाबलौ॥ ८॥ ततः परमसत्कारं सुमतेः प्राप्य राघवौ। उष्य तत्र निशामेकां जग्मतुर्मिथिलां ततः॥ ९॥ तान् दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम्। साधु साध्विति शंसन्तो मिथिलां समपूजयन्॥ १०॥ मिथिलोपवने तत्र आश्रमं दृश्य राघवः। पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुङ्गवम्॥ ११॥ श्रीमदाश्रमसंकाशं किं न्विदं मुनिवर्जितम्। श्रोतुमिच्छामि भगवन् कस्यायं पूर्व आश्रमः॥ १२॥ तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः। प्रत्युवाच महातेजा विश्वामित्रो महामुनिः॥ १३॥ हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव। यस्यैतदाश्रमपदं शप्तं कोपान्महात्मना॥ १४॥ गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मनः। आश्रमो दिव्यसंकाशः सुरैरपि सुपूजितः॥ १५॥ स चेह तप आतिष्ठदहल्यासहितः पुरा। वर्षपूगाननेकांश्च राजपुत्र महायशः॥ १६॥ तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः। मुनिवेषधरोऽहल्यामिदं वचनमब्रवीत्॥ १७॥ ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते। संगमं त्वहमिच्छामि त्वया सह सुमध्यमे॥ १८॥ मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन। मतिं चकार दुर्मेधा देवराजकुतूहलात्॥ १९॥ अथाब्रवीत् सुरश्रेष्ठं कृतार्थेनान्तरात्मना। कृतार्थास्मि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो॥ २०॥ आत्मानं मां च देवेश सर्वदा रक्ष मानद। इन्द्रस्तु प्रहसन् वाक्यमहल्यामिदमब्रवीत्॥ २१॥ सुश्रोणि परितुष्टोऽस्मि गमिष्यामि यथागतम्। एवं संगम्य तु तया निश्चक्रामोटजात् ततः॥ २२॥ स सम्भ्रमात् त्वरन् राम शङ्कितो गौतमं प्रति। गौतमं संददर्शाथ प्रविशन्तं महामुनिम्॥ २३॥ देवदानवदुर्धर्षं तपोबलसमन्वितम्। तीर्थोदकपरिक्लिन्नं दीप्यमानमिवानलम्॥ २४॥ गृहीतसमिधं तत्र सकुशं मुनिपुंगवम्। दृष्ट्वा सुरपतिस्त्रस्तो विवर्ंअवदनोऽभवत्॥ २५॥ अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः। दुर्वृत्तं वृत्तसम्पन्नो रोषाद् वचनमब्रवीत्॥ २६॥ मम रूपं समास्थाय कृतवानसि दुर्मते। अकर्तव्यमिदं तस्माद् विफलस्त्वं भविष्यसि॥ २७॥ गौतमेनैवमुक्तस्य सुरोषेण महात्मना। पेततुर्वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात्॥ २८॥ तथा शप्त्वा स वै शक्रमहल्यामपि शप्तवान्। इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि॥ २९॥ वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी। अदृश्या सर्वभूतानामाश्रमेऽस्मिन् निवत्स्यसि॥ ३०॥ यदा चैतद्वनं घोरं रामो दशरथात्मजः। आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि॥ ३१॥ तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता। मत्सकाशं मुदा युक्ता स्वं वपुर्धारयिष्यसि॥ ३२॥ एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम्। इममाश्रममुत्सृज्य सिद्धचारणसेविते। हिमवच्छिखरे रम्ये तपस्तेपे महातपाः॥ ३३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे शक्राहल्याशपो नम अष्टचत्वारिंशः सर्गः ॥१-४८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध