home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

एकोनपञ्चाशः सर्गः ॥१-४९॥

॥अहल्याशापमोक्षः॥

[ पितृभिर्मेषवृषणसंयोगेनेन्द्रस्य सवृषणत्वकरणं श्रीरामेणाहल्यायाः समुद्धारोऽहल्यागौतमाभ्यां श्रीरामस्य सत्कारश्च ]

अफलस्तु ततः शक्रो देवानग्निपुरोगमान्। अब्रवीत् त्रस्तवदनः सर्षिसङ्घान् सचारणान्॥ १॥ कुर्वता तपसो विघ्नं गौतमस्य महात्मनः। क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम्॥ २॥ अफलोऽस्मि कृतस्तेन क्रोधात् सा च निराकृता। शापमोक्षेण महता तपोऽस्यापहृतं मया॥ ३॥ तस्मान् सुरवराः सर्वे सर्षिसङ्घाः सचारणाः। सुरसाह्यकरं सर्वे सफलं कर्तुमर्हथ॥ ४॥ शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः। पितृदेवानुपेत्याहुः सर्वे सह मरुद्‍गणैः॥ ५॥ पुराविचार्य मोहेन मुनिपत्नीं शतक्रतुः। धर्षयित्वा मुनेः शापात्तत्रैव विफलीकृतः॥ ६॥ इदानीं कुप्यते देवान् देवराजः पुरंदरः। अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः॥ ७॥ मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत। अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति॥ ८॥ भवतां हर्षणार्थे च ये च दास्यन्ति मानवाः। अक्षयं हि फलं तेषां यूयं दास्यथ पुष्कलम्॥ ९॥ अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः। उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन्॥ १०॥ तदाप्रभृति काकुत्स्थ पितृदेवाः समागताः। अफलान् भुञ्जते मेषान् फलैस्तेषामयोजयन्॥ ११॥ इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव। गौतमस्य प्रभावेण तपसश्च महात्मनः॥ १२॥ तदागच्छ महातेज आश्रमं पुण्यकर्मणः। तारयैनां महाभागामहल्यां देवरूपिणीम्॥ १३॥ विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः। विश्वामित्रं पुरस्कृत्य तमाश्रममथाविशत्॥ १४॥ ददर्श च महाभागां तपसा द्योतितप्रभाम्। लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः॥ १५॥ प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव। स तुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव॥ १६॥ धूमेनापि परीताङ्गीं दीप्तामग्निशिखामिव। मध्येऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव॥ १७॥ सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह। त्रयाणामपि लोकानां यावद् रामस्य दर्शनम्॥ १८॥ शापस्यान्तमुपागम्य तेषां दर्शनमागता। राघवौ तु ततस्तस्याः पादौ जगृहतुस्तदा॥ १९॥ स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ। पाद्यमर्घ्यं तथातिथ्यं चकार सुसमाहिता॥ २०॥ प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा। पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिःस्वनैः॥ २१॥ गन्धर्वाप्सरसां चापि महानासीत् समुत्सवः। साधु साध्विति देवास्तामहल्यां समपूजयन्॥ २२॥ तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम्। गौतमोऽपि महातेजा अहल्यासहितः सुखी॥ २३॥ रामं सम्पूज्य विधिवत् तपस्तेपे महातपाः। रामोऽपि परमां पूजां गौतमस्य महामुनेः। सकाशाद् विधिवत् प्राप्य जगाम मिथिलां ततः॥ २४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे अहल्याशापमोक्षो नम एकोनपञ्चाशः सर्गः ॥१-४९॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध