home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

पञ्चाशः सर्गः ॥१-५०॥

॥जनकसमागमः॥

[ श्रीरामप्रभृतीनां मिथिलापुर्यां गमनं जनकेन विश्वा- मित्रस्य सत्कारस्तस्य श्रीरामलक्ष्मणयोः परिचय- जिज्ञासा तस्याः पूर्तिश्च ]

ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह। विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत्॥ १॥ रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः। साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः॥ २॥ बहूनीह सहस्राणि नानादेशनिवासिनाम्। ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम्॥ ३॥ ऋषिवाटाश्च दृश्यन्ते शकटीशतसंकुलाः। देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम्॥ ४॥ रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः। निवासमकरोद् देशे विविक्ते सलिलान्विते॥ ५॥ विश्वामित्रमनुप्राप्तं श्रुत्वा नृपवरस्तदा। शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितम्॥ ६॥ प्रत्युज्जगाम सहसा विनयेन समन्वितः। ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम्॥ ७॥ विश्वामित्राय धर्मेण ददुर्मन्त्रपुरस्कृतम्। प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः॥ ८॥ पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम्। स तांश्चाथ मुनीन् पृष्ट्वा सोपाध्यायपुरोधसः॥ ९॥ यथान्यायं ततः सर्वै समागच्छत् प्रहृष्टवत्। अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत॥ १०॥ आसने भगवानास्तां सहैभिर्मुनिपुंगवैः। जनकस्य वचः श्रुत्वा निषसाद महामुनिः॥ ११॥ पुरोधा ऋत्विजश्चैव राजा च सह मन्त्रिभिः। आसनेषु यथान्यायमुपविष्टान् समन्ततः॥ १२॥ दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत्। अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता॥ १३॥ अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया। धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः॥ १४॥ यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिः सह। द्वादशाहं तु ब्रह्मर्षे शेषमाहुर्मनीषिणः॥ १५॥ ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक। इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा॥ १६॥ पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रयतो नृपः। इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ॥ १७॥ गजसिम्हगती वीरौ शार्दूलवृषभोपमौ। पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ॥ १८॥ अश्विनाविव रूपेण समुपस्थितयौवनौ। यदृच्छयेव गां प्राप्तौ देवलोकादिवामरौ॥ १९॥ कथं पद‍्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने। वरायुधधरौ वीरौ कस्य पुत्रौ महामुने॥ २०॥ भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्। परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः॥ २१॥ काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः। तस्य तद् वचनं श्रुत्वा जनकस्य महात्मनः॥ २२॥ न्यवेदयदमेयात्मा पुत्रौ दशरथस्य तौ। सिद्धाश्रमनिवासं च राक्षसानां वधं तथा॥ २३॥ तच्चागमनमव्यग्रं विशालायाश्च दर्शनम्। अहल्यादर्शनं चैव गौतमेन समागमम्॥ २४॥ महाधनुषि जिज्ञासां कर्तुमागमनं तथा। एतत् सर्वं महातेजा जनकाय महात्मने। निवेद्य विररामाथ विश्वामित्रो महामुनिः॥ २५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे जनकसमागमो नाम पञ्चाशः सर्गः ॥१-५०॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध