home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

एकपञ्चाशः सर्गः ॥१-५१॥

॥विश्वमित्रवृत्तम्॥

[ शतानन्दपृष्टेन विश्वामित्रेण श्रीरामकर्तृकस्या- हल्योद्धारस्य वृत्तान्तनिवेदनं शतानन्देन च श्रीराममभिनन्द्य तं प्रति विश्वामित्रपूर्वचरित्रस्य वर्णनम् ]

तस्य तद् वचनं श्रुत्वा विश्वामित्रस्य धीमतः। हृष्टरोमा महातेजाः शतानन्दो महातपाः॥ १॥ गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः। रामसंदर्शनादेव परं विस्मयमागतः॥ २॥ स तौ निषण्णौ सम्प्रेक्ष्य सुखासीनौ नृपात्मजौ। शतानन्दो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत्॥ ३॥ अपि ते मुनिशार्दूल मम माता यशस्विनी। दर्शिता राजपुत्राय तपो दीर्घमुपागता॥ ४॥ अपि रामे महातेजा मम माता यशस्विनी। वन्यैरुपाहरत् पूजां पूजार्हे सर्वदेहिनाम्॥ ५॥ अपि रामाय कथितं यथावृत्तं पुरातनम्। मम मातुर्महातेजो देवेन दुरनुष्ठितम्॥ ६॥ अपि कौशिक भद्रं ते गुरुणा मम संगता। माता मम मुनिश्रेष्ठ रामसंदर्शनादितः॥ ७॥ अपि मे गुरुणा रामः पूजितः कुशिकात्मज। इहागतो महातेजाः पूजां प्राप्तो महात्मनः॥ ८॥ अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज। इहागतेन रामेण प्रयतेनाभिवादितः॥ ९॥ तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः। प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम्॥ १०॥ नातिक्रान्तं मुनिश्रेष्ठ यत् कर्तव्यं कृतं मया। संगता मुनिना पत्नी भार्गवेणेव रेणुका॥ ११॥ तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः। शतानन्दो महातेजा रामं वचनमब्रवीत्॥ १२॥ स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव। विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम्॥ १३॥ अचिन्त्यकर्मा तपसा ब्रह्मर्षिरतिलप्रभः। विश्वामित्रो महातेजा वेत्स्येनं परमां गतिम्॥ १४॥ नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन। गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः॥ १५॥ श्रूयतां चाभिधास्यामि कौशिकस्य महात्मनः। यथा बलं यथा वृत्तं तन्मे निगदतः शृणु॥ १६॥ राजासीदेष धर्मात्मा दीर्घकालमरिंदमः। धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः॥ १७॥ प्रजापतिसुतश्चासीत् कुशो नाम महीपतिः। कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः॥ १८॥ कुशनाभसुतस्त्वासीद् गाधिरित्येव विश्रुतः। गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः॥ १९॥ विश्वामित्रो महातेजाः पालयामास मेदिनीम्। बहुवर्षसहस्राणि राजा राज्यमकारयत्॥ २०॥ कदाचित् तु महातेजा योजयित्वा वरूथिनीम्। अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम्॥ २१॥ नगराणि च राष्ट्राणि सरितश्च तथा गिरीन्। आश्रमान् क्रमशो राम विचरन्नाजगाम ह॥ २२॥ वसिष्ठस्याश्रमपदं नानावृक्षसमाकुलम्। नानामृगगणाकीर्णं सिद्धचारणसेवितम्॥ २३॥ देवदानवगन्धर्वैः किंनरैरुपशोभितम्। प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम्॥ २४॥ ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम्। तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः॥ २५॥ अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा। फलमूलाशनैर्दान्तैर्जितरोषैर्जितेन्द्रियैः॥ २६॥ ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः। अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम्॥ २७॥ वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम्। ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलः॥ २८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे विश्वामित्रवृत्तं नाम एकपञ्चाशः सर्गः ॥१-५१॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध