एवमुक्ता वसिष्ठेन शबला शत्रुसूदन। विदधे कामधुक् कामान् यस्य यस्य यथोप्सितम्॥ १॥ इक्षून् मधूंस्तथा लाजान् मैरेयांश्च वरासवान्। पानानि च महार्हाणि भक्ष्यांश्चोच्चावचांस्तथा॥ २॥ उष्णाढ्यस्यौदनस्यात्र राशयः पर्वतोपमाः। मृष्टान्यन्नानि सूपांश्च दधिकुल्यास्तथैव च॥ ३॥ नानास्वादुरसानां च षाडवानां तथैव च। भजनानि सुपूर्णानि गौडानि च सहस्रशः॥ ४॥ सर्वमासीत् सुसंतुष्टं हृष्टपुष्टजनायुतम्। विश्वामित्रबलं राम वसिष्ठेनाभितर्पितम्॥ ५॥ विश्वामित्रोऽपि राजर्षिर्हृष्टः पुष्टस्तदाभवत्। सान्तःपुरवरो राजा सब्राह्मणपुरोहितः॥ ६॥ सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा। युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत्॥ ७॥ पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः। श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद॥ ८॥ गवां शतसहस्रेण दीयतां शबला मम। रत्नं हि भगवन्नेतद् रत्नहारी च पार्थिवः॥ ९॥ तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज। एवमुक्तस्तु भगवान् वसिष्ठो मुनिसत्तमः॥ १०॥ विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम्। नाहं शतसहस्रेण नापि कोटिशतैर्गवाम्॥ ११॥ राजन् दास्यामि शबलां राशिभी रजतस्य वा। न परित्यागमर्हेयं मत्सकाशादरिन्दम॥ १२॥ शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा। अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च॥ १३॥ आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च। स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा॥ १४॥ आयत्तमत्र राजर्षे सर्वमेतन्न संशयः। सर्वस्वमेतत् सत्येन मम तुष्टिकरी सदा॥ १५॥ कारणैर्बहुभी राजन् न दास्ये शबलां तव। वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत् तदा॥ १६॥ संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः। हैरण्यकक्षग्रैवेयान् सुवर्णाङ्कुशभूषितान्॥ १७॥ ददामि कुञ्जरांस्तेऽहं सहस्राणि चतुर्दश। हैरण्यानां रथानां ते श्वेताश्वानां चतुर्युजाम्॥ १८॥ ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान्। हयानां देशजातानां कुलजानां महौजसाम्॥ १९॥ सहस्रमेकं दश च ददामि तव सुव्रत। नानावर्णविभक्तानां वयःस्थानां तथैव च॥ २०॥ ददाम्येकां गवां कोटिं शबला दीयतां मम। यावदिच्छसि रत्ननं वा हिरण्यं वा द्विजोत्तम॥ २१॥ तावद् ददामि ते सर्वं शबला दीयतां मम। एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता॥ २२॥ न दास्यामीति शबलां प्राह राजन् कथंचन। एतदेव हि मे रत्नमेतदेव हि मे धनम्॥ २३॥ एतदेव हि सर्वस्वमेतदेव हि जीवितम्। दर्शश्च पौर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः॥ २४॥ एतदेव हि मे राजन् विविधाश्च क्रियास्तथा। अदोमूलाः क्रियाः सर्वा मम राजन् न संशयः। बहुना किं प्रलापेन न दास्ये कामदोहिनीम्॥ २५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे शबलानिष्क्रयो नाम त्रिपञ्चाशः सर्गः ॥१-५३॥