कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः। तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत॥ १॥ नीयमाना तु शबला राम राज्ञा महात्मना। दुःखिता चिन्तयामास रुदन्ती शोककर्शिता॥ २॥ परित्यक्ता वसिष्ठेन किमहं सुमहात्मना। याहं राजभटैर्दीना ह्रियेय भृशदुःखिता॥ ३॥ किं मयापकृतं तस्य महर्षेर्भावितात्मनः। यन्मामनागसं भक्तामिष्टां त्यजति धार्मिकः॥ ४॥ इति सा चिन्तयित्वा तु विनिःश्वस्य च पुनः पुनः। निर्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन॥ ५॥ जगामानिलवेगेन पादमूलं महात्मनः। शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत्॥ ६॥ वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी। भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत॥ ७॥ यस्माद् राजभटा मां हि नयन्ते त्वत्सकाशतः। एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत्॥ ८॥ शोकसंतप्तहृदयां स्वसारमिव दुःखिताम्। न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया॥ ९॥ एष त्वां नयते राजा बलान्मत्तो महाबलः। न हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः॥ १०॥ बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च। इयमक्षौहिणी सेना गजवाजिरथाकुला॥ ११॥ पत्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः। एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत्॥ १२॥ वचनं वचनज्ञा सा ब्रह्मर्षिममितप्रभम्। न बलं क्षत्रियस्याहुर्ब्राह्मणो बलवत्तराः॥ १३॥ ब्रह्मन् ब्रह्मबलं दिव्यं क्षात्त्रात्तु बलवत्तरम्। अप्रमेयबलं तुभ्यं न त्वया बलवत्तरः॥ १४॥ विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम्। नियुङ्क्ष्व मां महातेजस्त्वद् ब्रह्मबलसम्भृताम्॥ १५॥ तस्य दर्पबलं यत्तन्नाशयामि दुरात्मनः। इत्युक्तस्तु तया राम वसिष्ठस्तु महायशाः॥ १६॥ सृजस्वेति तदोवाच बलं परबलार्दनम्। तस्य तद् वचनं श्रुत्वा सुरभिः सासृजत् तदा॥ १७॥ तस्या हुम्भारवोत्सृष्टाः पप्लवाः शतशो नृप। नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः॥ १८॥ ब्वलं भग्नं ततो दृष्ट्वा रयेनाक्रम्य कौशिकः। स राजा परमक्रुद्धो रोषविस्फारितेक्षणः॥ १९॥ पप्लवान् नाशयामास शस्त्रैरुच्चावचैरपि। विश्वामित्रार्दितान् दृष्ट्वा पप्लवाञ्शतशस्तदा॥ २०॥ भूय एवासृजद् घोरान् शकान् यवनमिश्रितान्। तैरासीत् संवृता भूमिः शकैर्यवनमिश्रितैः॥ २१॥ प्रभावद्भिर्महावीर्यैः पद्मकिञ्जल्कसन्निभैः। तीक्ष्णासिपट्टसधरैर्हेमवर्णाम्बरावृतैः॥ २२॥ निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः। ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह। तैस्तैर्यवनकाम्भोजाः पप्लवाश्चाकुलीकृताः॥ २३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे पप्लवादिसृष्टिर्नाम चतुःपञ्चाशः सर्गः ॥१-५४॥