ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान्। वसिष्ठश्चोदयामास कामधुक् सृज योगतः॥ १॥ तस्या हुम्भारवोत्सृष्टाः काम्भोजा रविसंनिभाः। ऊधसस्त्वथ सम्भूता बर्बराः शस्त्रपाणयः॥ २॥ योनिदेशाच्च यवनाः शकृद्देशाच्छकास्तथा। रोमकूपेषु च म्लेच्छा हारीताः सकिरातकाः॥ ३॥ यैस्तन्निषूदितं सैन्यं विश्वामित्रस्य तत्क्षणात्। सपदातिगजं साश्वं सरथं रघुनन्दन॥ ४॥ दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना। विश्वामित्रसुतानां तु शतं नानाविधायुधम्॥ ५॥ अभ्यधावत् सुसंक्रुद्धं वसिष्ठं जपतां वरम्। हुंकारेणैव तान् सर्वान् ददाह भगवानृषिः॥ ६॥ ते साश्वरथपादाता वसिष्ठेन महात्मना। भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तदा॥ ७॥ दृष्ट्वा विनाशितान् पुत्रान् बलं च सुमहायशाः। सव्रीडश्चिन्तयाविष्टो विश्वामित्रोऽभवत् तदा॥ ८॥ समुद्र इव निर्वेगो भग्नद्रंष्ट्र इवोरगः। उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः॥ ९॥ हतपुत्रबलो दीनो लूनपक्ष इव द्विजः। हतदर्पो हतोत्साहो निर्वेदं समपद्यत॥ १०॥ स पुत्रमेकं राज्याय पालयेति नियुज्य च। पृथिवीं क्षत्त्रधर्मेण वनमेवाभ्यपद्यत॥ ११॥ स गत्वा हिमवत्पार्श्वे किन्नरोरगसेवितम्। महादेवप्रसादार्थं तपस्तेपे महातपाः॥ १२॥ केनचित् त्वथ कालेन देवेशो वृषभध्वजः। दर्शयामास वरदो विश्वामित्रं महामुनिम्॥ १३॥ किमर्थं तप्यसे राजन् ब्रूहि यत् ते विवक्षितम्। वरदोऽस्मि वरो यस्ते काङ्क्षितः सोऽभिधीयताम्॥ १४॥ एवमुक्तस्तु देवेन विश्वामित्रो महातपाः। प्रणिपत्य महादेवमिदंवचनमब्रवीत्॥ १५॥ यदि तुष्टो महादेव धनुर्वेदो ममानघ। साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम्॥ १६॥ यानि देवेषु चास्त्राणि दानवेषु महर्षिषु। गन्धर्वयक्षरक्षःसु प्रतियान्तु ममानघ॥ १७॥ तव प्रसादाद् भवतु देवदेव ममेप्सितम्। एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा॥ १८॥ प्राप्य चास्त्राणि राजर्षिविश्वामित्रो महाबलः। दर्पेण महता युक्तो दर्पपूर्णोऽभवत् तदा॥ १९॥ विवर्धमानो वीर्येण समुद्र इव पर्वसु। हतमेव तदा मेने वसिष्ठमृषिसत्तमम्॥ २०॥ ततो गत्वाश्रमपदं मुमोचास्त्राणि पार्थिवः। यैस्तत् तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा॥ २१॥ उदीर्यमाणमस्त्रं तद् विश्वामित्रस्य धीमतः। दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः॥ २२॥ वसिष्ठस्य च ये शिष्यास्तथैव मृगपक्षिणः। विद्रवन्ति भयाद् भीता नानादिग्भ्यः सहस्रशः॥ २३॥ वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः। मुहूर्तमिव निःशब्दमासीदीरिणसंनिभम्॥ २४॥ वदतो वै वसिष्ठस्य मा भैष्टेति मुहुर्मुहुः। नाशयाम्यद्य गाधेयं नीहारमिव भास्करः॥ २५॥ एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः। विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत्॥ २६॥ आश्रमं चिरसंवृद्धं यद् विनाशितवानसि। दुराचारोऽसि यन्मूढ तस्मात् त्वं न भविष्यसि॥ २७॥ इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः। विधूममिव कालाग्निं यमदण्डमिवापरम्॥ २८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे विश्वामित्रधनुर्वेदाधिगमो नाम पञ्चपञ्चाशः सर्गः ॥१-५५॥