उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः। अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालरूपिणम्॥ १॥ ऐक्ष्वाको स्वागतं तेऽस्तु जानामि त्वां सुधार्मिकम्। शरणं ते भविष्यमि मा भैषीर्नृपपुंगव॥ २॥ अहमामन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः। यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः॥ ३॥ गुरुशापकृतं रूपं यदिदं त्वयि वर्तते। अनेन सह रूपेण सशरीरो गमिष्यसि॥ ४॥ हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप। यस्त्वं कौशिकमागम्य शरण्यं शरणागतः॥ ५॥ एवमुक्त्वा महातेजाः पुत्रान् परमधार्मिकान्। व्यादिदेश महाप्राज्ञान् यज्ञसम्भारकारणात्॥ ६॥ सर्वान् शिष्यान् समाहूय वाक्यमेतदुवाच ह। सर्वानृषीगणान् वत्सा आनयध्वं ममाज्ञया॥ ७॥ सशिष्यासुहृदश्चैव सर्त्विजः सुबहुश्रुतान्। यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः॥ ८॥ तत् सर्वमखिलेनोक्तं ममाख्येयमनादृतम्। तस्य तद् वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया॥ ९॥ आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः। ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम्॥ १०॥ ऊचुश्च वचनं सर्वं सर्वेषां ब्रह्मवादिनाम्। श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः॥ ११॥ सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम्। वासिष्ठं यच्छतं सर्वं क्रोधपर्याकुलाक्षरम्॥ १२॥ यथाह वचनं सर्वं शृणु त्वं मुनिपुंगव। क्षत्त्रियो याजको यस्य चण्डालस्य विशेषतः॥ १३॥ कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः। ब्राह्मणा वा महात्मानो भुक्त्वा चाण्डालभोजनम्॥ १४॥ कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः। एतद् वचननैष्ठुर्यमूचुः संरक्तलोचनाः॥ १५॥ वासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः। तेषां तद् वचनं श्रुत्वा सर्वेषां मुनिपुंगवः॥ १६॥ क्रोधसंरक्तनयनः सरोषमिदमब्रवीत्। ये दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम्॥ १७॥ भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः। अद्य ते कालपाशेन नीता वैवस्वतक्षयम्॥ १८॥ सप्त जातिशतान्येव मृतपाः सन्तु सर्वशः। श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः॥ १९॥ विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान्। महोदयश्च दुर्बुद्धिर्मामदूष्यं ह्यदूषयत्॥ २०॥ दूषितः सर्वलोकेषु निषादत्वं गमिष्यति। प्राणातिपातनिरतो निरनुक्रोशतां गतः॥ २१॥ दीर्घकालं मम क्रोधाद् दुर्गतिं वर्तयिष्यति। एतावदुक्त्वा वचनं विश्वामित्रो महातपाः। विरराम महातेजा ऋषिमध्ये महामुनिः॥ २२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे वसिष्ठशापो नाम एकोनषष्ठितमः सर्गः ॥१-५९॥