तपोबलहतान् कृत्वा वासिष्ठान् समहोदयान्। ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत॥ १॥ अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः। धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः॥ २॥ स्वेनानेन शरीरेण देवलोकजिगीषया। यथायं स्वशरीरेण स्वर्गलोकं गमिष्यति॥ ३॥ तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह। विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः॥ ४॥ ऊचुः समेताः सहसा धर्मज्ञा धर्मसंहितम्। अयं कुशिकदायादो मुनिः परमकोपनः॥ ५॥ यदाह वचनं सम्यगेतत् कार्यं न संशयः। अग्निकल्पो हि भगवान् शापं दास्यति रोषतः॥ ६॥ तस्मात् प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम्। गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा॥ ७॥ तथा प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत। एवमुक्त्वा महर्षयश्चक्रुस्तास्ताः क्रियास्तदा॥ ८॥ याजकश्च महातेजा विश्वामित्रोऽभवत् क्रतौ। ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः॥ ९॥ चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि। ततः कालेन महता विश्वामित्रो महातपाः॥ १०॥ चकारावाहनं तत्र भागार्थं सर्वदेवताः। नाभ्यागमंस्तदाहूता भागार्थं सर्वदेवताः॥ ११॥ ततः क्रोधसमाविष्टो विश्वामित्रो महामुनिः। स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत्॥ १२॥ पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर। एष त्वां सशरीरेण नयामि स्वर्गमोजसा॥ १३॥ दुष्प्रापं स्वशरीरेण दिवं गच्छ नरधिप। स्वार्जितं किञ्चिदप्यस्ति मया हि तपसः फलम्॥ १४॥ राजन् स्वतेजसा तस्य सशरीरो दिवं व्रज। उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः॥ १५॥ दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा। देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः॥ १६॥ सह सर्वैः सुरगणैरिदं वचनमब्रवीत्। त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः॥ १७॥ गुरुशापहतो मूढ पत भूमिमवाक्शिराः। एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत् पुनः॥ १८॥ विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम्। तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः॥ १९॥ क्रोधमाहारयत् तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्। ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः॥ २०॥ सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः। नक्षत्रमालामपरमसृजत् क्रोधमूर्च्छितः॥ २१॥ दक्षिणां दिशमास्थाय ऋषिमध्ये महातपाः। सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः॥ २२॥ अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः। दैवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमे॥ २३॥ ततः परमसम्भ्रान्ताः सर्षिसङ्घाः सुरासुराः। विश्वामित्रं महात्मानमूचुः सानुनयं वचः॥ २४॥ अयं राजा महाभाग गुरुशापपरिक्षतः। सशरीरो दिवं यातुं नार्हत्येव तपोधन॥ २५॥ तेषां तद् वचनं श्रुत्वा देवानां मुनिपुंगवः। अब्रवीत् सुमहद् वाक्यं कौशिकः सर्वदेवताः॥ २६॥ सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः। आरोहणं प्रतिज्ञातं नानृतं कर्तुमुत्सहे॥ २७॥ स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः। नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ॥ २८॥ यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः। मत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ॥ २९॥ एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुंगवम्। एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः॥ ३०॥ गगने तान्यनेकानि वैश्वानरपथाद् बहिः। नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिष्षु जाज्वलन्॥ ३१॥ अवाक्शिरास्त्रिशङ्कुश्च तिष्ठत्वमरसंनिभः। अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम्॥ ३२॥ कृतार्थं कीर्तिमन्तं च स्वर्गलोकगतं यथा। विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः॥ ३३॥ ऋषिमध्ये महातेजा बाढमित्येव देवताः। ततो देवा महात्मानो मुनयश्च तपोधनाः। जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम॥ ३४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे त्रिशङ्कुस्वर्गो नाम षष्ठितमः सर्गः ॥१-६०॥