home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

एकषष्ठितमः सर्गः ॥१-६१॥

॥शुनःशेपविक्रयः॥

[ विश्वामित्रस्य पुष्करतीर्थे तपस्या, राजर्षिणाम्बरीषे- कमध्यमपुत्रं शुनःशेपं यज्ञपशूकर्तुं क्रीत्वा स्वगृहे तस्य समानयनम् ]

विश्वामित्रो महात्माथ प्रस्थितान् वीक्ष्य तानृषीन्। अब्रवीन्नरशार्दूल सर्वांस्तान् वनवासिनः॥ १॥ महान् विघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम्। दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः॥ २॥ पश्चिमायां विशालायां पुष्करेषु महात्मनः। सुखं तपश्चरिष्यामो वरं तद्धि तपोवनम्॥ ३॥ एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः। तप उग्रं दुराधर्षं तेपे मूलफलाशनः॥ ४॥ एतस्मिन्नेव काले नु अयोध्याधिपतिर्नृपः। अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे॥ ५॥ तस्य वै यजमानस्य पशुमिन्द्रो जहार ह। प्रनष्टे तु पशौ विप्रो राजानमिदमब्रवीत्॥ ६॥ पशुरद्य हृतो राजन् प्रणष्टस्तव दुर्नयात्। अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर॥ ७॥ प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ। आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते॥ ८॥ उपाध्यायवचः श्रुत्वा स राजा पुरुषर्षभः। अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः॥ ९॥ देशाञ्जनपदांस्तांस्तान् नगराणि वनानि च। आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः॥ १०॥ स पुत्रसहितं तात सभार्यं रघुनन्दन। भृगुतुन्दे समासीनमृचीकं संददर्श ह॥ ११॥ तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च। ब्रह्यर्षिं तपसा दीप्तं राजर्षिरमितप्रभः॥ १२॥ पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः। गवां शतसहस्रेण विक्रीणीषे सुतं यदि॥ १३॥ पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव। सर्वे परिगता देशा यज्ञियं न लभे पशुम्॥ १४॥ दातुमर्हसि मूल्येन सुतमेकमितो मम। एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद् वचः॥ १५॥ नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथंचन। ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम्॥ १६॥ उवाच नरशार्दूलमम्बरीषं तपस्विनी। अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः॥ १७॥ ममापि दयितं विद्धि कनिष्ठं शुनकं नृप। तस्मात् कनीयसं पुत्रं न दास्ये तव पार्थिव॥ १८॥ प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः। मातॄणां च कनीयांसस्तस्माद् रक्षे कनीयसम्॥ १९॥ उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च। शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत्॥ २०॥ पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम्। विक्रीतं मध्यमं मन्ये राजन् पुत्रं नयस्व माम्॥ २१॥ अथ राजा महान् राम वाक्यान्ते ब्रह्मवादिनः। हिरण्यस्य सुवर्णस्य कोटिभी रत्नराशिभिः॥ २२॥ गवां शतसहस्रेण शुनःशेपं नरेश्वरः। गृहीत्वा परमप्रीतो जगाम रघुनन्दन॥ २३॥ अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः। शुनःशेपं महातेजा जगामाशु महायशाः॥ २४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे शुनः शेपाविक्रियो नाम एकषष्ठितमः सर्गः ॥१-६१॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध