home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

द्विषष्ठितमः सर्गः ॥१-६२॥

॥अम्बरीषयज्ञः॥

[ शुनःशेपं रक्षितुं विश्वामित्रस्य सफलः प्रयत्न-स्तपस्या च ]

शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः। व्यश्रम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन॥ १॥ तस्य विश्रममाणस्य शुनःशेपो महायशाः। पुष्करंक्षेत्रमागम्य विश्वामित्रं ददर्श ह॥ २॥ तप्यन्तमृषिभिः सार्धं मातुलं परमातुरः। विवर्णवदनो दीनस्तृष्णया च श्रमेण च॥ ३॥ पपाताङ्के मुनेराशु वाक्यं चेदमुवाच ह। न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः॥ ४॥ त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुंगव। त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः॥ ५॥ राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः। स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम्॥ ६॥ त्वं मे नाथो ह्यनाथस्य भव भव्येन चेतसा। पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात्॥ ७॥ तस्य तद् वचनं श्रुत्वा विश्वामित्रो महातपाः। सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह॥ ८॥ यत्कृते पितरः पुत्राञ्जनयन्ति शुभार्थिनः। परलोकहितार्थाय तस्य कालोऽयमागतः॥ ९॥ अयं मुनिसुतो बालो मत्तः शरणमिच्छति। अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः॥ १०॥ सर्वे सुकृतकर्माणः सर्वें धर्मपरायणाः। पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत॥ ११॥ नाथवांश्च शुनःशेपो यज्ञश्चाविघ्नतो भवेत्। देवतास्तर्पिताश्च स्युर्मम चापि कृतं वचः॥ १२॥ मुनेस्तु वचनं श्रुत्वा मधुष्यन्दादयः सुताः। साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन्॥ १३॥ कथमात्मसुतान् हित्वा त्रायसेऽन्यसुतं विभो। अकार्यमिव पश्यामः श्वमांसमिव भोजने॥ १४॥ तेषां तद् वचनं श्रुत्वा पुत्राणां मुनिपुंगवः। क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे॥ १५॥ निःसाध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम्। अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम्॥ १६॥ श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु। पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ॥ १७॥ कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस्तदा। शुनःशेपमुवाचार्तं कृत्वा रक्षां निरामयाम्॥ १८॥ पवित्रपाशैरासक्तो रक्तमाल्यानुलेपनः। वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर॥ १९॥ इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक। अम्बरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि॥ २०॥ शुनःशेपो गृहीत्वा तु ते गाथे सुसमाहितः। त्वरया राजसिंहं तमम्बरीषमुवाच ह॥ २१॥ राजसिंह महासत्त्व शीघ्रं गच्छावहे सदः। निर्वर्तयस्व राजेन्द्र दीक्षां च समुपाविश॥ २२॥ तद् वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमुत्सुकः। जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः॥ २३॥ सदस्यानुमते राजा पवित्रकृतलक्षणम्। पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत्॥ २४॥ स बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ। इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः॥ २५॥ ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः। दीर्घमायुस्तदा प्रादाच्छुनःशेपाय राघव॥ २६॥ स च राजा नरश्रेष्ठ यज्ञस्यान्तमवाप्तवान्। फलं बहुगुणं राम सहस्राक्षप्रसादजम्॥ २७॥ विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः। पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च॥ २८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे अम्बरीषयज्ञो नाम द्विषष्ठितमः सर्गः ॥१-६२॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध