home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

सप्तषष्ठितमः सर्गः ॥१-६७॥

॥धनुर्भङ्घः॥

[ श्रीरामेण मौर्वीमारोप्य धनुषः पूरणे कृते तस्य भङ्गो विश्वामित्राज्ञया जनकेन राजानं दशरथ-माह्वयितुं मन्त्रिणां प्रेषणम् ]

जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः। धनुर्दर्शय रामाय इति होवाच पार्थिवम्॥ १॥ ततः स राजा जनकः सचिवान् व्यादिदेश ह। धनुरानीयतां दिव्यं गन्धमाल्यविभूषितम्॥ २॥ जनकेन समादिष्टाः सचिवाः प्राविशन् पुरम्। तद्धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया॥ ३॥ नृणां शतानि पञ्चाशद् व्यायतानां महात्मनाम्। मञ्जूषामष्टचक्रां तां समूहुस्ते कथंचन॥ ४॥ तामादाय तु मञ्जूषामायसीं यत्र तद्धनुः। सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः॥ ५॥ इदं धनुर्वरं राजन् पूजितं सर्वराजभिः। मिथिलाधिप राजेन्द्र दर्शनीयं यदीच्छसि॥ ६॥ तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत। विश्वामित्रं महात्मानं तावुभौ रामलक्ष्मणौ॥ ७॥ इदं धनुर्वरं ब्रह्मञ्जनकैरभिपूजितम्। राजभिश्च महावीर्यैरशक्यं पूरितं तदा॥ ८॥ नैतत् सुरगणाः सर्वे सासुरा न च राक्षसाः। गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥ ९॥ क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे। आरोपणे समायोगे वेपने तोलनेऽपि वा॥ १०॥ तदेतद् धनुषां श्रेष्ठमानीतं मुनिपुंगव। दर्शयैतन्महाभाग अनयो राजपुत्रयोः॥ ११॥ विश्वामित्रस्तु धर्मात्मा श्रुत्वा जनकभाषितम्। वत्स राम धनुः पश्य इति राघवमब्रवीत्॥ १२॥ महर्षेर्वचनाद् रामो यत्र तिष्ठति तद्धनुः। मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत्॥ १३॥ इदं धनुर्वरं ब्रह्मन् संस्पृशामीह पाणिना। यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा॥ १४॥ बाढमित्येव तं राजा मुनिश्च समभाषत। लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः॥ १५॥ पश्यतां नृसहस्राणां बहूनां रघुनन्दनः। आरोपयत् स धर्मात्मा सलीलमिव तद्धनुः॥ १६॥ आरोपयित्वा धर्मात्मा पूरयामास वीर्यवान्। तद् बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः॥ १७॥ तस्य शब्दो महानासीन्निर्घातसमनिःस्वनः। भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यतः॥ १८॥ निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः। वर्जयित्वा मुनिवरं राजानं तौ च राघवौ॥ १९॥ प्रत्याश्वस्ते जने तस्मिन् राजा विगतसाध्वसः। उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुंगवम्॥ २०॥ भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः। अत्यद्भुतमचिन्त्यं च न तर्कितमिदं मया॥ २१॥ जनकानां कुले कीर्तिमाहरिष्यति मे सुता। सीता भर्तारमासाद्य रामं दशरथात्मजम्॥ २२॥ मम सत्या प्रतिज्ञा सा वीर्यशुल्केति कौशिक। सीता प्राणैर्बहुमता देया रामाय मे सुता॥ २३॥ भवतोऽनुमते ब्रह्मन् शीघ्रं गच्छन्तु मन्त्रिणः। मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः॥ २४॥ राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम। प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः॥ २५॥ मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै। प्रीयमाणं तु राजानमानयन्तु सुशीघ्रगाः॥ २६॥ कौशिकस्तु तथेत्याह राजा चाभाष्य मन्त्रिणः। अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान्। यथावृत्तं समाख्यातुमानेतुं च नृपं तदा॥ २७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे धनुर्भङ्गो नाम सप्तषष्ठितमः सर्गः ॥१-६७॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध