जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः। त्रिरात्रमुषिता मार्गे त्वयोध्यां प्राविशन् पुरीम्॥ १॥ राज्ञो भवनमासाद्य द्वारस्थानिदमब्रुवन्। शीघ्रं निवेद्यतां राज्ञे दूतान्नो जनकस्य च॥ २॥ इत्युक्ता द्वारपालास्ते राघवाय न्यवेदयन्। ते राजवचनाच्छीघ्रं द्वाःस्था दूतान् बभाषिरे॥ ३॥ द्रुतं गच्छन्तु दूता वै राजवेश्म महाद्युति। ते राजवचनाद्दूता राजवेश्म प्रवेशिता:॥ ४॥ ददृशुर्देवसङ्काशं वृद्धं दशरथं नृपम्। बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाः॥ ५॥ राजानं प्रश्रितं वाक्यमब्रुवन् मधुराक्षरम्। मैथिलो जनको राजा साग्निहोत्रपुरस्कृतम्॥ ६॥ कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम्। मुहुर्मुहुर्मधुरया स्नेहसंरक्तया गिरा॥ ७॥ जनकस्त्वां महाराज पृच्छते सपुरःसरम्। पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः॥ ८॥ कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत्। पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा॥ ९॥ राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः। सेयं मम सुता राजन् विश्वामित्रपुरः सरैः॥ १०॥ यदृच्छयागतैवूरैर्निर्जिता तव पुत्रकैः। तच्च राजन् धनुर्दिव्यं मध्ये भग्नं महात्मना॥ ११॥ रामेण हि महावीर यज्ञान्ते जनसंसदि। अस्मै देया मया सीता वीर्यशुल्का महात्मने॥ १२॥ प्रतिज्ञां तर्तुमिच्छामि तदनुज्ञातुमर्हसि। सोपाध्यायो महाराज पुरोहितपुरः सरः॥ १३॥ शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ। प्रतिज्ञां मम राजेन्द्र निर्वर्तयितुमर्हसि॥ १४॥ पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम्। एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत्॥ १५॥ विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः। दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः॥ १६॥ वसिष्ठं वामदेवं च मन्त्रिणोऽन्याश्च सिऽब्रवीत्। गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः॥ १७॥ लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ। दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना॥ १८॥ सम्प्रदानं सुतायास्तु राघवे कर्तुमिच्छति। यदि वो रोचते वृत्तं जनकस्य महात्मनः॥ १९॥ पुरीं गच्छामहे शीघ्रं मा भूत् कालस्य पर्ययः। मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः॥ २०॥ सुप्रीतश्चाब्रवीद् राजा श्वो यात्रेति स मन्त्रिणः। मन्त्रिणस्तु नरेन्द्रस्य रात्रिं परमसत्कृताः। ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः॥ २१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे दश्रथाह्वानं नम अष्टषष्ठितमः सर्गः ॥१-६८॥