home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

एकोनसप्ततितमः सर्गः ॥१-६९॥

॥दशरथजनकसमागमः॥

[ सबलस्य दशरथस्य मिथिलायां गमनं तत्र जनकेन तस्य सत्कारश्च ]

ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः। राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत्॥ १॥ अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम्। व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः॥ २॥ चतुरङ्गबलं सर्वं शीघ्रं निर्यातु सर्वशः। ममाज्ञासमकालं च यानयुग्यमनुत्तमम्॥ ३॥ वसिष्ठो वामदेवश्च जाबालिरथ कश्यपः। मार्कण्डेयः सुदीर्घायुर्ऋषिः कात्यायनस्तथा॥ ४॥ एते द्विजाः प्रयान्त्वग्रे स्यन्दनं योजयस्व मे। यथा कालात्ययो न स्याद् दूता हि त्वरयन्ति माम्॥ ५॥ वचनात्तु नरेन्द्रस्य सा सेना चतुरङ्गिणी। राजानमृषिभिः सार्धं व्रजन्तं पृष्ठतोऽन्वगात्॥ ६॥ गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान्। राजा तु जनकः श्रीमान् श्रुत्वा पूजामकल्पयत्॥ ७॥ ततो राजानमासाद्य वृद्धं दशरथं नृपम्। जनको मुदितो राजा हर्षं च परमं ययौ॥ ८॥ उवाच च नरश्रेष्ठो नरश्रेष्ठं मुदान्वितः। स्वागतं ते म्हरज दिष्ट्या प्राप्तोऽसि राघव॥ ९॥ पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम्। दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषिः॥ १०॥ सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः। दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम्॥ ११॥ राघवैः सह सम्बन्धाद् वीर्यश्रेष्ठैर्महात्मभिः। श्वः प्रभाते नरेन्द्र त्वं निर्वर्तयितुमर्हसि॥ १२॥ यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसंमतम्। तस्य तद् वचनं श्रुत्वा ऋषिमध्ये नराधिपः॥ १३॥ वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम्। प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा॥ १४॥ यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे वयम्। धर्मिष्ठं च यशस्यं च वचनं सत्यवादिनः॥ १५॥ श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः। ततः सर्वे मुनिगणाः परस्परसमागमे॥ १६॥ हर्षेण महता युक्तास्तां निशामवसन् सुखम्। अथ रामो महातेजा लक्ष्मणेन समं ययौ॥ १७॥ विश्वामित्रं पुरस्कृत्य पितुः पादावुपस्पृशन्। राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः॥ १८॥ उवास परमप्रीतो जनकेनाभिपूजितः। जनकोऽपि महातेजाः क्रियां धर्मेण तत्त्ववित्। यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह॥ १९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे दशरथजनकसमागमो नाम एकोनसप्ततितमः सर्गः ॥१-६९॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध