ततः प्रभाते जनकः कृतकर्मा महर्षिभिः। उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम्॥ १॥ भ्राता मम महातेजा यावीयानतिधार्मिकः। कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम्॥ २॥ वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम्। सांकाश्यां पुण्यसंकाशां विमानमिव पुष्पकम्॥ ३॥ तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः। प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह॥ ४॥ एवमुक्ते तु वचने शतानन्दस्य संनिधौ। आगताः केचिदव्यग्रा जनकस्तान् समादिशत्॥ ५॥ शासनात् तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः। समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा॥ ६॥ सांकाश्यां ते समागम्य ददृशुश्च कुशध्वजम्। न्यवेदयन् यथावृत्तं जनकस्य च चिन्तितम्॥ ७॥ तद्वृत्तं नृपतिः श्रुत्वा दूतश्रेष्ठैर्महाजवैः। आज्ञयाथ नरेन्द्रस्य आजगाम कुशध्वजः॥ ८॥ स ददर्श महात्मानं जनकं धर्मवत्सलम्। सोऽभिवाद्य शतानन्दं जनकं चापि धार्मिकः॥ ९॥ राजार्हं परमं दिव्यमासनं सोऽध्यरोहत। उपविष्टावुभौ तौ तु भ्रातरावमितौजसौ॥ १०॥ प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम्। गच्छ मन्त्रिपते शीघ्रमिक्ष्वाकममितप्रभम्॥ ११॥ आत्मजैः सह दुर्धर्षमानयस्व समन्त्रिणम्। औपकार्यां स गत्वा तु रघूणां कुलवर्धनम्॥ १२॥ ददर्श शिरसा चैनमभिवाद्येदमब्रवीत्। अयोध्याधिपते वीर वैदेहो मिथिलाधिपः॥ १३॥ स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम्। मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तदा॥ १४॥ सबन्धुरगमत् तत्र जनको यत्र वर्तते। स राजा मन्त्रिसहितः सोपाध्यायः सबान्धवः॥ १५॥ वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत्। विदितं ते महाराज इक्ष्वाकुकुलदैवतम्॥ १६॥ वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः। विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः॥ १७॥ एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम्। एवमुक्त्वा नरश्रेष्ठो राज्ञां मध्ये महात्मनाम्॥ १८॥ तूष्णींभूते दशरथे वसिष्ठो भगवानृषिः॥ १८॥ उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम्॥ १९॥ अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः। तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः॥ २०॥ विवस्वान् कश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः। मनुः प्रजापतिः पूर्वमिक्ष्वाकुतु मनोः सुतः॥ २१॥ तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्। इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव विश्रुतः॥ २२॥ कुक्षेरथात्मजः श्रीमान् विकुक्षिरुदपद्यत। विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान्॥ २३॥ बाणस्य तु महातेजा अनरण्यः प्रतापवान्। अनरण्यात् पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोः सुतः॥ २४॥ त्रिशङ्कोरभवत् पुत्रो धुन्धुमारो महायशाः। धुन्धुमारान्महातेजा युवनाश्वो व्यजायत॥ २५॥ युवनाश्वसुतश्चासीन्मान्धाता पृथिवीपतिः। मान्धातुस्तु सुतः श्रीमान् सुसन्धिरुदपद्यत॥ २६॥ सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित्। यशस्वी ध्रुवसन्धेस्तु भरतो नाम नामतः॥ २७॥ भरतात् तु महातेजा असितो नाम जातवान्। यस्यैते प्रतिराजान उदपद्यन्त शत्रवः॥ २८॥ हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः। तांस्तु स प्रतियुध्यन् वै युद्धे राज्यात् प्रवासितः॥ २९॥ हिमवन्तमुपागम्य भृगुप्रस्त्रवणेऽवस्त्। असितोऽल्पबलो राजा कालधर्ममुपेयिवान्॥ ३०॥ द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतम्। एका गर्भविनाशाय सपत्न्यै सगरं ददौ॥ ३१॥ ततः शैलवरे रम्ये बभूवाभिरतो मुनिः। भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः॥ ३२॥ तत्रैका तु महाभागा भार्गवं देववर्चसम्। ववन्दे पद्मपत्राक्षी काङ्क्षन्ती सुतमात्मनः॥ ३३॥ तमृषिं साभ्युपागम्य कालिन्दी चाभ्यवादयत्। स तामभ्यवदद् विप्रः पुत्रेप्सुं पुत्रजन्मनि॥ ३४॥ तव कुक्षौ महाभागे सुपुत्रः सुमहाबलः। महावीर्यो महातेजा अचिरात् संजनिष्यति॥ ३५॥ गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे। एवमुक्त्वा महातेजा असिते स्वर्गते सति॥ ३६॥ विधाय चेतो नृपतौ विद्युल्लेखेव सुप्रभा। च्यवनं च नमस्कृत्य राजपुत्री पतिव्रता॥ ३७॥ पतिशोकातुरा तस्मात् पुत्रं देवी व्यजायत। सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया॥ ३८॥ सह तेन गरेणैव जातः स सगरोऽभवत्। सगरस्यासमञ्जस्तु असमञ्जादथांशुमान्॥ ३९॥ दिलीपोंऽम्शुमतः पुत्रो दिलीपस्य भगीरथः। भगीरथात् ककुत्स्थोऽभूत् ककुत्स्थस्य रघुः सुतः॥ ४०॥ रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः। कल्माषपादो ह्यभवत्तस्माज्जातश्च शङ्खणः॥ ४१॥ सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात्। शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः॥ ४२॥ मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात्। अम्बरीषस्य पुत्रोऽभून्नहुषः पृथिवीपतिः॥ ४३॥ नहुषस्य ययातिश्च नाभागस्तु ययातिजः। नाभागस्य बभूवाजः अजाद् दशरथोऽभवत्॥ ४४॥ अस्माद् दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ। आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम्॥ ४५॥ इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम्। रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप। सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि॥ ४६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे कन्यवरणं नाम सप्ततितमः सर्गः ॥१-७०॥