home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

त्रिसप्ततितमः सर्गः ॥१-७३॥

॥दशरथपुत्रोद्वाहः॥

[ श्रीरामादीनां चतुर्णां भ्रातॄणां विवाह: ]

यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम्। तस्मिंस्तु दिवसे शूरो युधाजित् समुपेयिवान्॥ १॥ पुत्रः केकयराजस्य साक्षाद्भरतमातुलः। दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत्॥ २॥ केकयाधिपती राजा स्नेहात् कुशलमब्रवीत्। येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम्॥ ३॥ स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः। तदर्थमुपयातोऽहमयोध्यां रघुनन्दन॥ ४॥ श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान्। मिथिलामुपयातांस्तु त्वया सह महीपते॥ ५॥ त्वरयाभ्युपयातोऽहं द्रष्टुकामः स्वसुः सुतम्। अथ राजा दशरथः प्रियातिथिमुपस्थितम्॥ ६॥ दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत्। ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः॥ ७॥ प्रभाते पुनरुत्थाय कृत्वा कर्माणि कर्मवित् । ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत्॥ ८॥ युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः। भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः॥ ९॥ वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि। पितुः सभीपमश्रित्य तस्थौ भ्रतृभिरावृतः॥ १०॥ वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत्। राजा दशरथो राजन् कृतकौतुकमंगलैः॥ ११॥ पुत्रैर्नरवरश्रेष्ठो दातारमभिकाङ्क्षते। दातृप्रतिग्रहीतृभ्यां सर्वार्थाः प्रभवन्ति हि॥ १२॥ स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम्। इत्युक्तः परमोदारो वसिष्ठेन महात्मना॥ १३॥ प्रत्युवाच महातेजा वाक्यं परमधर्मवित्। कः स्थितः प्रतिहारो मे कस्याज्ञा सम्प्रतीक्षते॥ १४॥ स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव। कृतकौतुकसर्वस्वा वेदिमूलमुपागताः॥ १५॥ मम कन्या मुनिश्रेष्ठ दीप्ता बह्नेरिवार्चिषः। सज्जोऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः॥ १६॥ अविघ्नं क्रियतां सर्वं किमर्थं हि विलम्ब्यते। तद् वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा॥ १७॥ प्रवेशयामास सुतान् सर्वानृषिगणानपि। ततो राजा विदेहानां वसिष्ठमिदमब्रवीत्॥ १८॥ कारयस्व ऋषे सर्वामृषिभिः सह धार्मिक। रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो॥ १९॥ तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः। विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम्॥ २०॥ प्रपामध्ये तु विधिवद् वेदिं कृत्वा महातपाः। अलंचकार तां वेदिं गन्धपुष्पैः समन्ततः॥ २१॥ सुवर्णपालिकाभिश्च छिद्रकुम्भैश्च साङ्कुरैः। अङ्कुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः॥ २२॥ शङ्खपात्रैः स्रुवैः स्रग्भिः पात्रैरर्घ्याभिपूजितैः। लाजपूर्णैश्च पात्रीभिरक्षतैरपि संस्कृतैः॥ २३॥ दर्भैः समैः समास्तीर्य विधिवन्मन्त्रपूर्वकम्। अग्निमाधाय वेद्यां तु विधिमन्त्रपुरस्कृतम्॥ २४॥ जुहावाग्नौ महातेजा वसिष्ठो भघवानृषिः। ततः सीतां समानीय सर्वाभरणभूषिताम्॥ २५॥ समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा। अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम्॥ २६॥ इयं सीता मम सुता सहधर्मचरी तव। प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना॥ २७॥ पतिव्रता महाभागा छायेवानुगता सदा। इत्युक्त्वा प्राक्षिपद् राजा मन्त्रपूतं जलं तदा॥ २८॥ साधु साध्विति देवानामृषीणां वदतां तदा। देवदुन्दुभिनिर्घोषः पुष्पवर्षो महानभूत्॥ २९॥ एवं दत्त्वा सुतां सीतां मन्त्रोदकपुरस्कृताम्। अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः॥ ३०॥ लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया। प्रतीच्छ पाणिं गृह्णीष्व मा भूत् कालस्य पर्ययः॥ ३१॥ तमेवमुक्त्वा जनको भरतं चाभ्यभाषत। पाणिं गृहाण माण्डव्याः पाणिना रघुनन्दन॥ ३२॥ शत्रुघ्नं चापि धर्मात्मा अब्रवीज्जनकेश्वरः। श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना॥ ३३॥ सर्वे भवन्तः सौम्याश्च सर्वे सुचरितव्रताः। पत्नीभिः सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः॥ ३४॥ जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन्। चत्वारस्ते चतसॄणां वसिष्ठस्य मते स्थिताः॥ ३५॥ अग्निं प्रदक्षिणं कृत्वा वेदिं राजानमेव च। ऋषींश्चैव महात्मानः सभार्या रघुसत्तमाः॥ ३६॥ यथोक्तेन तदा चक्रुर्विवाहं विधिपूर्वकम्। काकुत्स्थैश्च गृहीतेषु ललितेषु च पणिषु॥ ३७॥ पुष्पवृष्टिर्महत्यासीदन्तरिक्षात् सुभास्वरा। दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिःस्वनैः॥ ३८॥ ननृतुश्चाप्सरःसङ्घा गन्धर्वाश्च जगुः कलम्। विवाहे रघुमुख्यानां तदद्भुतमदृश्यत॥ ३९॥ ईदृशे वर्तमाने तु तूर्योद‍्घुष्टनिनादिते। त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः॥ ४०॥ अथोपकार्यं जग्मुस्ते सभार्या रघुनन्दनाः। राजाप्यनुययौ पश्यन् सर्षिसङ्घः सबान्धवः॥ ४१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे दशरथपुत्रोद्वाहो नाम त्रिसप्ततितमः सर्गः ॥१-७३॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध