home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

चतुःसप्ततितमः सर्गः ॥१-७४॥

॥जामदग्न्याभियोगः॥

[ विश्वामित्रस्य स्वाश्रमं प्रति प्रस्थानं जनककर्तृकं कन्यानां कृते प्रचुरधनदानं राज्ञो दशरथस्य विदापनं च मार्गे शुभाशुभशकुनोदयः परशुरामस्या- गमनं च ]

अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः। आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम्॥ १॥ आशीर्भिः पूरयित्वा च कुमारांश्च सरघवान्। विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम्॥ २॥ आपृच्छ्याथ जगामाशु राजा दशरथः पुरीम्। गच्छन्तं तं तु राजानमन्वगच्छन्नराधिपः॥ ३॥ अथ राजा विदेहानां ददौ कन्याधनं बहु। गवां शतसहस्राणि बहूनि मिथिलेश्वरः॥ ४॥ कम्बलानां च मुख्यानां क्षौमकोट्यम्बराणि च। हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम्॥ ५॥ ददौ कन्यापिता तासां दासीदासमनुत्तमम्। हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च॥ ६॥ ददौ परमसंहृष्टः कन्याधनमनुत्तमम्। दत्त्वा बहुविधं राजा समनुज्ञाप्य पार्थिवम्॥ ७॥ प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः। राजाप्ययोध्याधिपतिः सह पुत्रैर्महात्मभिः॥ ८॥ ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः। गच्छन्तं तं नरव्याघ्रं सर्षिसङ्घं सराघवम्॥ ९॥ घोराः स्म पक्षिणो वाचो व्याहरन्ति समन्ततः। भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम्॥ १०॥ तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत। असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः॥ ११॥ किमिदं हृदयोत्कम्पि मनो मम विषीदति। राज्ञो दशरथस्यैतत्श्रुत्वा वाक्यं महानृषिः॥ १२॥ उवाच मधुरां वाणीं श्रूयतामस्य यत् फलम्। उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम्॥ १३॥ मृगाः प्रशमयन्त्येते संतापस्त्यज्यतामयम्। तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह॥ १४॥ कम्पयन् मेदिनीं सर्वां पातयंश्च महाद्रुमान्। तमसा संवृतः सूर्यः सर्वा न प्रबभुर्दिशः॥ १५॥ भस्मना चावृतं सर्वं सम्मूढमिव तद‍्बलम्। वसिष्ठ ऋषयश्चान्ये राजा च ससुतस्तदा॥ १६॥ ससंज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम्। तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः॥ १७॥ ददर्श भीमसंकाशं जटामण्डलधारिणम्। भार्गवं जामदग्न्येयं राजराजविमर्दनम्॥ १८॥ कैलासमिव दुर्धर्षं कालाग्निमिव दुःसहम्। ज्वलन्तमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनैः॥ १९॥ स्कन्धे चासज्ज्य परशुं धनुर्विद्युद‍्गणोपमम्। प्रगृह्य शरमुग्रं च त्रिपुरघ्नं यथा हरम्॥ २०॥ तं दृष्ट्वा भीमसंकाशं ज्वलन्तमिव पावकम्। वसिष्ठप्रमुखाः सर्वे जपहोमपरायणाः॥ २१॥ संगता मुनयः सर्वे संजजल्पुरथो मिथः। कच्चित् पितृवधामर्षी क्षत्त्रं नोत्सादयिष्यति॥ २२॥ पूर्वं क्षत्त्रवधं कृत्वा गतमन्युर्गतज्वरः। क्षत्त्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम्॥ २३॥ एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम्। ऋषयो राम रामेति वचो मधुरमब्रुवन्॥ २४॥ प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान्। रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत॥ २५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे जामदग्न्यभियोगो नाम चतुःसप्ततितमः सर्गः ॥१-७४॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध