home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

पञ्चसप्ततितमः सर्गः ॥१-७५॥

॥वैष्णवधनुःप्रशंसा॥

[ दशरथवाक्यमनाकर्ण्य परशुरामेण श्रीरामस्य वैष्णवधनुष बाणं संधातुं प्रेरणम् ]

राम दाशरथे वीर वीर्यं ते श्रूयतेऽद्भुतम्। धनुषो भेदनं चैव निखिलेन मया श्रुतम्॥ १॥ तदद्भुतमचिन्त्यं च भेदनं धनुषस्त्वया। तत्श्रुत्वाहमनुप्राप्तो धनुर्गृह्यापरं शुभम्॥ २॥ तदहं घोरसंकाशं जामदग्न्यं महद्धनुः। पूरयस्व शरेणैव स्वबलं दर्शयस्व मे॥ ३॥ तदिदं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे। द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यमहं तव॥ ४॥ तस्य तद् वचनं श्रुत्वा राजा दशरथस्तदा। विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत्॥ ५॥ क्षत्ररोषात् प्रशान्तस्त्वं ब्राह्मणश्च महायशाः। बालानां मम पुत्राणामभयं दातुमर्हसि॥ ६॥ भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम्। सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि॥ ७॥ स त्वं धर्मपरो भूत्वा कश्यपाय वसुंधराम्। दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः॥ ८॥ मम सर्वविनाशाय सम्प्राप्तस्त्वं महामुने। न चैकस्मिन् हते रामे सर्वे जीवामहे वयम्॥ ९॥ ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान्। अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत॥ १०॥ इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते। दृढे बलवती मुख्ये सुकृते विश्वकर्मणा॥ ११॥ अतिसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे। त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया॥ १२॥ इदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमैः। तदिदं वैष्णवं राम धनुः परपुरंजयम्॥ १३॥ समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम्। तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम्॥ १४॥ शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया। अभिप्रायं तु विज्ञाय देवतानां पितामहः॥ १५॥ विरोधं जनयामास तयोः सत्यवपरीक्षया। विरोधे तु महद् युद्धमभवद् रोमहर्षणम्॥ १६॥ शितिकण्ठस्य विष्णोश्च परस्परजयैषिणोः। तदा तु जृम्भितं शैवं धनुर्भीमपराक्रमम्॥ १७॥ हुंकारेण महादेवः स्तम्भितोऽथ त्रिलोचनः। देवैस्तदा समागम्य सर्षिसङ्घः सचारणैः॥ १८॥ याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ। जृम्भितं तद् धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः॥ १९॥ अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तथा। धनू रुद्रस्तु संक्रुद्धो विदेहेषु महायशाः॥ २०॥ देवरातस्य राजर्षेर्ददौ हस्ते ससायकम्। इदं च वैष्णवं राम धनुः परपुरंजयम्॥ २१॥ ऋचीके भार्गवे प्रादाद् विष्णुः सन्न्यासमुत्तमम्। ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः॥ २२॥ पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः। न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते॥ २३॥ अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः। वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम्॥ २४॥ क्षत्त्रमुत्सादयन् रोषाज्जातं जातमनेकशः। पृथिवीं चाखिलां प्राप्य कश्यपाय महात्मने॥ २५॥ यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे। दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः॥ २६॥ तदेवं वैष्णवं राम पितृपैतामहं महत्। क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम्॥ २७॥ योजयस्व धनुःश्रेष्ठे शरं परपुरंजयम्। यदि शन्कोषि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः॥ २८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे वैष्णवधनुःप्रशंसा नाम पञ्चसप्ततितमः सर्गः ॥१-७५॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध