तस्य त्वेवंप्रभावस्य धर्मज्ञस्य महात्मनः। सुतार्थं तप्यमानस्य नासीद् वंशकरः सुतः॥ १॥ चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः। सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम्॥ २॥ स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान्। मन्त्रिभिः सह धर्मात्मा सर्वैरेव कृतात्मभिः॥ ३॥ ततोऽब्रवीदिदं राहा सुमन्त्रं मन्त्रिसत्तमम्। शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान्॥ ४॥ ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः। समानयत् स तान् सर्वान् समस्तान् वेदपारगान्॥ ५॥ सुयज्ञं वामदेवं च जाबालिमथ काश्यपम्। पुरोहितं वशिष्ठं च ये चान्ये द्विजसत्तमाः॥ ६॥ तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा। इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत्॥ ७॥ मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम्। तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम॥ ८॥ तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा। कथं प्राप्स्याम्यहं कामं बुद्धिरत्र विचार्यताम्॥ ९॥ ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन्। वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम्॥ १०॥ ऊचुश्च परमप्रीताः सर्वे दशरथं वचः। सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्॥ ११॥ सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम्। सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव॥ १२॥ यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता। ततस्तुष्टोऽभवद् राजा श्रुत्वैतद् द्विजभाषितम्॥ १३॥ अमात्यांश्चाब्रवीद् राजा हर्षपर्याकुलेक्षणः। सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह॥ १४॥ समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम्। सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्॥ १५॥ शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि। शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता॥ १६॥ नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे। च्छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः॥ १७॥ निहतस्य च यज्ञस्य सद्यः कर्ता विनश्यति। तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते॥ १८॥ तथा विधानं क्रियतां समर्थाः करणेष्विह। तथेति चाब्रुवन् सर्वे मन्त्रिणः प्रतिपूजिताः॥ १९॥ पार्थिवेन्द्रस्य तद् वाक्यं यथाज्ञप्तं निशम्य ते। तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम्॥ २०॥ अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम्। विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत्॥ २१॥ ऋत्विग्भिरुपदिष्टोऽयं यथावत् क्रतुराप्यताम्। तावद्यूयं च भवथ समर्थाः करणेष्विह॥ २२॥ इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान्। विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः॥ २३॥ ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयप्रियाः। उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात्॥ २४॥ तासां तेनातिकान्तेन वचनेन सुवर्चसाम्। मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये॥ २५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे सुमन्त्रवाक्यं नाम अष्टमः सर्गः ॥१-८॥