home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

नवमः सर्गः ॥१-९॥

॥ऋश्यशृङ्गोपाख्यानम्॥

[ सुमन्त्रेणर्ण्यशृङ्गवृत्तान्तस्य संक्षेपेण वर्णनम् ]

एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत्। श्रूयतां तत् पुरावृत्तं पुराणे च मया श्रुतम्॥ १॥ ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः। सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम्॥ २॥ ऋषीणां सन्निधौ राजंस्तव पुत्रागमं प्रति। काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः॥ ३॥ ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति। स वने नित्यसंवृद्धो मुनिर्वनचरः सदा॥ ४॥ नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात्। द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः॥ ५॥ लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा। तस्यैवं वर्तमानस्य कालः समभिवर्तत॥ ६॥ अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम्। एतस्मिन्नेव काले तु रोमपादः प्रतापवान्॥ ७॥ अङ्गेषु प्रथितो राजा भविष्यति महाबलः। तस्य व्यतिक्रमाद् राज्ञो भविष्यति सुदारुणा॥ ८॥ अनावृष्टिः सुघोरा वै सर्वभूतभयावहा। अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः॥ ९॥ ब्राह्मणाञ्श्रूतवृद्धांश्च समानीय प्रवक्ष्यति। भवन्तः श्रुतकर्माणो लोकचारित्रवेदिनः॥ १०॥ समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत्। इत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाः॥ ११॥ वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः। विभाण्डकसुतं राजन् सर्वोपायैरिहानय॥ १२॥ आनाय्य तु महीपालं ऋश्यशृङ्गं सुसत्कृतम्। विभाण्डकसुतं राजन् ब्राह्मणं वेदपारगम्। प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः॥ १३॥ तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते। केनोपायेन वै शक्यमिहानेतुं स वीर्यवान्॥ १४॥ ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान्। पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान्॥ १५॥ ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः। न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम्॥ १६॥ वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान्क्षमान्। आनेष्यामो वयं विप्रं न च दोषो भविष्यति॥ १७॥ एवमङ्गाधिपेनैव गणिकाभिर्ऋषेः सुतः। आनीतोऽवर्षयद् देवः शान्ता चास्मै प्रदीयते॥ १८॥ ऋश्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति। सनत्कुमारकथितमेतावद् व्याहृतं मया॥ १९॥ अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत। यथर्ष्यशृङ्गस्त्वानीतो विस्तरेण त्वयोच्यताम्॥ २०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे ऋश्यशृङ्गोपाख्यानं नाम नवमः सर्गः ॥१-९॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध