home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भागवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
सुन्दरकाण्डम्

षड्विंशः सर्गः॥५-२६॥

॥प्राणत्यागसंप्रधारणम्॥

[ सीतायाः करुणो विलापः स्वप्राणपरित्यागनिश्चयश्च ]

प्रसक्ताश्रुमुखी त्वेवं ब्रुवन्ती जनकात्मजा । अधोमुखमुखी बाला विलप्तुमुपचक्रमे ॥ ०१॥ उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती । उपावृत्ता किशोरीव विवेष्टन्ती महीतले ॥ ०२॥ राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा । रावणेन प्रमथ्याहमानीता क्रोशती बलात् ॥ ०३॥ राक्षसीवशमापन्ना भर्त्स्यमाना सुदारुणम् । चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे ॥ ०४॥ न हि मे जीवितेनार्थो नैवार्थैर्न च भूषणैः । वसन्त्या राक्षसीमध्ये विना रामं महारथम् ॥ ०५॥ अश्मसारमिदं नूनमथवाप्यजरामरम् । हृदयं मम येनेदं न दुःखेनावशीर्यते ॥ ०६॥ धिङ्मामनार्यामसतीं याहं तेन विनाकृता । मुहूर्तमपि रक्षामि जीवितं पापजीविता ॥ ०७॥ का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना । भर्तारं सागरान्ताया वसुधायाः प्रियंवदम् ॥ ०८॥ भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् । न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता ॥ ०९॥ चरणेनापि सव्येन न स्पृशेयं निशाचरम् । रावणं किं पुनरहं कामयेयं विगर्हितम् ॥ १०॥ प्रत्याख्यानं जानाति नात्मानं नात्मनः कुलम्। यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति ॥ ११॥ छिन्ना भिन्ना प्रभिन्ना वा दीप्ता वाग्नौ प्रदीपिता । रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम् ॥ १२॥ ख्यातः प्राज्ञः कृतज्ञश्च सानुकोशश्च राघवः । सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ॥ १३॥ राक्षसानां जनस्थाने सहस्राणि चतुर्दश । येनैकेन निरस्तानि स मां किं नाभिपद्यते॥ १४॥ निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा । समर्थः खलु मे भर्ता रावणं हन्तुमाहवे॥ १५॥ विराधो दण्डकारण्ये येन राक्षसपुङ्गवः । रणे रामेण निहतः स मां किं नाभिपद्यते॥ १६॥ कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा । न तु राघवबाणानां गतिरोधीह विद्यते॥ १७॥ किं नु तत् कारणं येन रामो दृढपराक्रमः । रक्षसापहृतां भार्यामिष्टां नाभ्यवपद्यते॥ १८॥ इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः । जानन्नपि हि तेजस्वी धर्षणं मर्षयिष्यति॥ १९॥ हृतेति योऽधिगत्वा मां राघवाय निवेदयेत्। गृध्रराजोऽपि स रणे रावणेन निपातितः॥ २०॥ कृतं कर्म महत्तेन मां तथाभ्यवपद्यता । तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा॥ २१॥ यदि मामिह जानीयाद्वर्तमानां स राघवः । अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम्॥ २२॥ विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम् । रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत्॥ २३॥ ततो निहतनाथानां राक्षसीनां गृहे गृहे । यथाहमेवं रुदती तथा भूयो न संशयः॥ २४॥ अन्विष्य रक्षसां लङ्कां कुर्याद्रामः सलक्ष्मणः । न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति॥ २५॥ चिताधूमाकुलपथा गृध्रमण्डलसंकुला । अचिरेण तु लङ्केयं श्मशानसदृशी भवेत् ॥ २६॥ अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम् । दुष्प्रस्थानोऽयमाभाति सर्वेषाम् वो विपर्ययः॥ २७॥ यादृशानीह दृश्यन्ते लङ्कायामशुभानि वै । अचिरेणैव कालेन भविष्यति हतप्रभा॥ २८॥ नूनं लङ्का हते पापे रावणे राक्षसाधमे । शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा॥ २९॥ पुण्योत्सवसमुत्था च नष्टभर्त्री सराक्षसी । भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना॥ ३०॥ नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे । श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम्॥ ३१॥ सान्धकारा हतद्योता हतराक्षसपुंगवा । भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः॥ ३२॥ यदि नाम स शूरो मां रामो रक्तान्तलोचनः। जानीयद्वर्तमानां हि रावणस्य निवेशने ॥ ३३॥ अनेन तु नृशंसेन रावणेनाधमेन मे । समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः ॥ ३४॥ स च मे विहितो मृत्युरस्मिन् दुष्टे न वर्तते । अकार्यं ये न जानन्ति नैर्ॠताः पापकारिणः ॥ ३५॥ अधर्मात्तु महोत्पातो भविष्यति हि सांप्रतम् । नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः॥ ३६॥ ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति। साहं कथं चरिष्यामि तं विना प्रियदर्शनम्॥ ३७॥ रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता । यदि कश्चित् प्रदाता मे विषस्याद्य भवेदिह ॥ ३८॥ क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना । नाजानाज्जीवतीं रामः स मां लक्ष्मणपूर्वजः॥ ३९॥ जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम्। नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः ॥ ४०॥ देवलोकमितो यातस्त्यक्त्वा देहं महीतले । धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥ ४१॥ मम पश्यन्ति ये नाथं रामं राजीवलोचनम् । अथवा न हि तस्यार्थो धर्मकामस्य धीमतः ॥ ४२॥ मया रामस्य राजर्षेर्भार्यया परमात्मनः । दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यपश्यतः ॥ ४३॥ नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति । किं नु मे न गुणाः केचित् किं वा भाग्यक्षयो मम ॥ ४४॥ याहं सीदामि रामेण हीना मुख्येन भामिनी । श्रेयो मे जीवितान्मर्तुं विहीनाया महात्मनः ॥ ४५॥ रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् । अथवा न्यस्तशस्त्रौ तौ वने मूलफलाशिनौ ॥ ४६॥ भ्रातरौ हि नरश्रेष्ठौ संवृत्तौ वनगोचरौ । अथवा राक्षसेन्द्रेण रावणेन दुरात्मना ॥ ४७॥ छद्मना सादितौ शूरौ भ्रातरौ रामलक्ष्मणौ । साहमेवं गते काले मर्तुमिच्छामि सर्वथा ॥ ४८॥ न च मे विहितो मृत्युरस्मिन् दुःखेऽपि वर्तति । धन्याः खलु महात्मानो मुनयस्त्यक्तकिल्बिषाः ॥ ४९॥ जितात्मनो महाभागा येषां न स्तः प्रियाप्रिये । प्रियान्न संभवेद्दुःखमप्रियान्नाधिकं भयम् ॥ ५०॥ ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् । साहं त्यक्ता प्रियार्हेण रामेण विदितात्मना ॥ ५१॥ प्राणांस्त्यक्ष्यामि पापस्य रावनस्य गता वशम्॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे प्राणत्यागसंप्रधारणं नाम षड्विंशः सर्गः ॥५-२६॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध