इत्युक्ताः सीतया घोरा राक्षस्यः क्रोधमूर्छिताः । काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः ॥ ०१॥ ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः । पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ॥ ०२॥ अद्येदानीं तवानार्ये सीते पापविनिश्चये । राक्षस्यो भक्षयिष्यामो मांसमेतद्यथासुखम् ॥ ०३॥ सीतां ताभिरनार्याभिर्दृष्ट्वा संतर्जितां तदा। राक्षसी त्रिजटा वृद्धा प्रबुद्धा वाक्यमब्रवीत् ॥ ०४॥ आत्मानं खादतानार्या न सीतां भक्षयिष्यथ । जनकस्य सुतामिष्टां स्नुषां दशरथस्य च ॥ ०५॥ स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः । राक्षसानामभावाय भर्तुरस्या जयाय च ॥ ०६॥ एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्छिताः। सर्वा एवाब्रुवन् भीतास्त्रिजटां तामिदं वचः ॥ ०७॥ कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि । तासां तु वचनं श्रुत्वा राक्षसीनां मुखाच्च्युतम् ॥ ०८॥ उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम् । गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् ॥ ०९॥ युक्तां हंससहस्रेण स्वयमास्थाय राघवः । शुक्लमाल्याम्बरधरो लक्ष्मणेन सहागतः ॥ १०॥ स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता । सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थिता ॥ ११॥ रामेण संगता सीता भास्करेण प्रभा यथा । राघवश्च मया दृष्टश्चतुर्दन्तं महागजम् ॥ १२॥ आरूढः शैलसंकाशं चकास सहलक्ष्मणः। ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा ॥ १३॥ शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ । ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः ॥ १४॥ भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता । भर्तुरङ्कात् समुत्पत्य ततः कमललोचना ॥ १५॥ चन्द्रसूर्यौ मया दृष्टौ पाणिना परिमार्जती । ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः ॥ १६॥ सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः। पाण्डरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् ॥ १७॥ इहोपयातः काकुत्स्थः सीतया सह भार्यया। लक्ष्मणेन सह भ्रात्रा विमाने पुष्पके स्थितः ॥ १८॥ शुक्लमाल्याम्बरधरो लक्ष्मणेन समागतः। आरुह्य पुष्पकं दिव्यं विमानं सूर्यसंनिभम् ॥ १९॥ उत्तरां दिशमालोक्य जगाम पुरुषोत्तमः। साण्डं त्रिभुवनं भीमं सर्वतः सचराचरम् ॥ २०॥ एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः । लक्ष्मणेन सह भ्रात्रा सीतया सह राघवः ॥ २१॥ न हि रामो महातेजाः शक्यो जेतुं सुरासुरैः । राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव ॥ २२॥ रावणश्च मया दृष्टः क्षितौ तैलसमुक्षितः । रक्तवासाः पिबन् मत्तः करवीरकृतस्रजः ॥ २३॥ विमानात् पुष्पकादद्य रावणः पतितो भुवि । कृष्यमाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः ॥ २४॥ रथेन खरयुक्तेन रक्तमाल्यानुलेपनः। पिबंस्तैलं हसन्नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः ॥ २५॥ गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः । पुनरेव मया दृष्टो रावणो राक्षसेश्वरः ॥ २६॥ पतितोऽवाक्शिरा भूमौ गर्दभाद्भयमोहितः । सहसोत्थाय संभ्रान्तो भयार्तो मदविह्वलः ॥ २७॥ उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलपन् मुहु । दुर्गन्धं दुःसहं घोरं तिमिरं नरकोपमम् ॥ २८॥ मलपङ्कं प्रविश्याशु मग्नस्तत्र स रावणः । कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी ॥ २९॥ काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति । एवं तत्र मया दृष्टः कुम्भकर्णो निशाचरः ॥ ३०॥ रावणस्य सुताः सर्वे मुण्डास्तैलसमुक्षिताः । वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित् ॥ ३१॥ उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम् । एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः ॥ ३२॥ शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः। शङ्खदुन्दुभिनिर्घोषैर्नृत्तगीतैरलंकृतः ॥ ३३॥ आरुह्य शैलसंकाशं मेघस्तनितनिःस्वनम् । चतुर्धन्तं गजं दिव्यमास्ते तत्र विभीषणः ॥ ३४॥ चतुर्भिः सचिवैः सार्धं वैहायसमुपस्थितः । समाजश्च मया दृष्टो गीतवादित्रनिःस्वनः ॥ ३५॥ पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम्। लङ्का चेयं पुरी रम्या सवाजिरथकुञ्जरा ॥ ३६॥ सागरे पतिता दृष्टा भग्नगोपुरतोरणा । लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता ॥ ३७॥ दग्धा रामस्य दूतेन वानरेण तरस्विना । पीत्वा तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः ॥ ३८॥ लङ्कायां भस्मरूक्षायां प्रविष्टा राक्षसस्तियः । कुम्भकर्णादयश्चेमे सर्वे राक्षसपुंगवाः ॥ ३९॥ रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे । अपगच्छत नश्यध्वं सीतामाप स राघवः ॥ ४०॥ घातयेत् परमामर्षी सर्वैः सार्धं हि राक्षसैः । प्रियां बहुमतां भार्यां वनवासमनुव्रताम् ॥ ४१॥ भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः । तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम् ॥ ४२॥ अभियाचाम वैदेहीमेतद्धि मम रोचते । यस्यामेवंविधः स्वप्नो दुःखितायां प्रदृश्यते ॥ ४३॥ सा दुःखैर्विविधैर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् । भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया ॥ ४४॥ राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् । प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ॥ ४५॥ अलमेषा परित्रातुं राक्षसीर्महतो भयात् । अपि चास्या विशालाक्ष्या न किञ्चिदुपलक्षये ॥ ४६॥ विरूपमपि चाङ्गेषु सुसूक्ष्ममपि लक्षणम् । छायावैगुण्यमात्रं तु शङ्के दुःखमुपस्थितम् ॥ ४७॥ अदुःखार्हमिमां देवीं वैहायसमुपस्थिताम् । अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम् ॥ ४८॥ राक्षसेन्द्रविनाशं च विजयं राघवस्य च । निमित्तभूतमेतत्तु श्रोतुमस्या महत् प्रियम् ॥ ४९॥ दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम् । ईषच्च हृषितो वास्या दक्षिणाया ह्यदक्षिणः ॥ ५०॥ अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते । करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः ॥ ५१॥ वेपमानः सूचयति राघवं पुरतः स्थितम्॥ पक्षी च शाखानिलयः प्रविष्टः पुनः पुनश्चोत्तमसान्त्ववादी । सुस्वागतं वाचमुदीरयाणः पुनः पुनश्चोदयतीव हृष्टः ॥ ५२॥ ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता। अवोचद्यदि तत्तध्यं भवेयं शरणं हि वः ॥ ५३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे त्रिजटास्वप्नो नाम सप्तविंशः सर्गः ॥५-२७॥