तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षां परिदीन मानसाम्। शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः ॥ ०१॥ तस्याः शुभं वाममरालपक्ष्म राजीवृतं कृष्णविशालशुक्लम्। प्रास्पन्दतैकं नयनं सुकेश्या मीनाहतं पद्ममिवाभिताम्रम् ॥ ०२॥ भुजश्च चार्वञ्चितपीनवृत्तः परार्ध्यकालागरुचन्दनार्हः। अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु ॥ ०३॥ गजेन्द्रहस्तप्रतिमश्च पीनः तयोर्द्वयोः संहतयोः सुजातः। प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात् स्थितमाचचक्षे ॥ ०४॥ शुभं पुनर्हेमसमानवर्णं ईषद्रजोध्वस्तमिवामलाक्ष्याः। वासः स्थितायाः शिखराग्रदत्याः किंचित् परिस्रंसत चारुगात्र्याः ॥ ०५॥ एतैर्निमित्तैरपरैश्च सुभ्रूः संबोधिता प्रागपि साधु सिद्धैः। वातातपक्लान्तमिव प्रनष्टं वर्षेण बीजं प्रतिसंजहर्ष ॥ ०६॥ तस्याः पुनर्बिम्बफलाधरोष्ठं स्वक्षिभ्रुकेशान्तमरालपक्ष्म। वक्त्रं बभासे सितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः ॥ ०७॥ सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविवृद्धसत्त्वा। अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन ॥ ०८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे शुभनिमित्तानि नाम एकोनविंशः सर्गः ॥५-२९॥