home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भागवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
सुन्दरकाण्डम्

त्रिंशः सर्गः॥५-३०॥

॥हनूमत्कृत्याकृत्यविचिन्तन्म्॥

[ सीतया सह कर्तव्ये वार्तालापे हनुमतो विचारणा ]

हनुमानपि विश्रान्तः सर्वं शुश्राव तत्त्वतः। सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ॥ ०१॥ अवेक्षमाणस्तां देवीं देवतामिव नन्दने। ततो बहुविधां चिन्तां चिन्तयामास वानरः ॥ ०२॥ यां कपीनां सहस्राणि सुबहून्ययुतानि च। दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ॥ ०३॥ चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षिता। गूढेन चरता तावदवेक्षितमिदं मया ॥ ०४॥ राक्षसानां विशेषश्च पुरी चेयमवेक्षिता। राक्षसाधिपतेरस्य प्रभावो रावणस्य च ॥ ०५॥ युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः। समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम् ॥ ०६॥ अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्। अदृष्टदुःखां दुःखार्तां दुःखस्यान्तमगच्छतीम् ॥ ०७॥ यदि ह्यहमिमां देवीं शोकोपहतचेतनाम्। अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत् ॥ ०८॥ गते हि मयि तत्रेयं राजपुत्री यशस्विनी। परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ॥ ०९॥ मया च स महाबाहुः पूर्णचन्द्रनिभाननः। समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ॥ १०॥ निशाचरीणां प्रत्यक्षमनर्हं चापि भाषणम्। कथं नु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ॥ ११॥ अनेन रात्रिशेषेण यदि नाश्वास्यते मया। सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम् ॥ १२॥ रामश्च यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः। किमहं तं प्रतिब्रूयामसंभाष्य सुमध्यमाम् ॥ १३॥ सीतासंदेशरहितं मामितस्त्वरया गतम्। निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा ॥ १४॥ यदि चोद्योजयिष्यामि भर्तारं रामकारणात्। व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ॥ १५॥ अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः। शनैराश्वासयिष्यामि संतापबहुलामिमाम् ॥ १६॥ अहं त्वतितनुश्चैव वानरश्च विशेषतः। वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ॥ १७॥ यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम्। रावणं मन्यमाना मां सीता भीता भविष्यति ॥ १८॥ वानरस्य विशेषेण कथं स्यादभिभाषणम्। अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् ॥ १९॥ मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता। सेयमालोक्य मे रूपं जानकी भाषितं तथा ॥ २०॥ रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति। ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी ॥ २१॥ जानाना मां विशालाक्षी रावणं कामरूपिणम्। सीतया च कृते शब्दे सहसा राक्षसीगणः ॥ २२॥ नानाप्रहरणो घोरः समेयादन्तकोपमः। ततो मां संपरिक्षिप्य सर्वतो विकृताननाः ॥ २३॥ वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम्। गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् ॥ २४॥ दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः। मम रूपं च संप्रेक्ष्य वने विचरतो महत् ॥ २५॥ राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः। ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि ॥ २६॥ राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने। ते शूलशक्तिनिस्त्रिंशविविधायुधपाणयः ॥ २७॥ आपतेयुर्विमर्देऽस्मिन् वेगेनोद्वेगकारणात्। संरुद्धस्तैस्तु परितो विधमन् रक्षसां बलम् ॥ २८॥ शक्नुयां न तु संप्राप्तुं परं पारं महोदधेः। मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः ॥ २९॥ स्यादियं चागृहीतार्था मम च ग्रहणं भवेत्। हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् ॥ ३०॥ विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम्। उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते ॥ ३१॥ सागरेण परिक्षिप्ते गुप्ते वसति जानकी। विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे ॥ ३२॥ नान्यं पश्यामि रामस्य साहाय्यं कार्यसाधने। विमृशंश्च न पश्यामि यो हते मयि वानरः ॥ ३३॥ शतयोजनविस्तीर्णं लङ्घयेत महोदधिम्। कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम् ॥ ३४॥ न तु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः। असत्यानि च युद्धानि संशयो मे न रोचते ॥ ३५॥ कश्च निःसंशयं कार्यं कुर्यात् प्राज्ञः ससंशयम्। प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ॥ ३६॥ एष दोषो महान् हि स्यान्मम सीताभिभाषणे। भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ॥ ३७॥ विक्लवं दूतमासाद्य तमः सूर्योदये यथा। अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते ॥ ३८॥ घातयन्ति हि कार्याणि दूताः पण्डितमानिनः। न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत् ॥ ३९॥ लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत्। कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत वा ॥ ४०॥ इति संचिन्त्य हनुमांश्चकार मतिमान् मतिम्। राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् ॥ ४१॥ नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम्। इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः ॥ ४२॥ शुभानि धर्मयुक्तानि वचनानि समर्पयन्। श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् ॥ ४३॥ श्रद्धास्यति यथा हीयं तथा सर्वं समादधे॥ इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः। मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ॥ ४४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे हनूमत्कृत्याकृत्यविचिन्तनं नाम त्रिंशः सर्गः ॥५-३०॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध