एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः। संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ॥ ०१॥ राजा दशरथो नाम रथकुञ्जरवाजिमान्। पुण्यशीलो महाकीर्तिर्ऋजुरासीन्महायशाः ॥ ०२॥ राजर्षीणां गुणश्रेष्ठस्तपसा चर्षिभिः समः। चक्रवर्तिकुले जातः पुरंदरसमो बले ॥ ०३॥ अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः। मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः ॥ ०४॥ पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः। पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी ॥ ०५॥ तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः। रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ॥ ०६॥ रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता। रक्षिता जीवलोकस्य धर्मस्य च परंतपः ॥ ०७ तस्य सत्याभिसन्धस्य वृद्धस्य वचनात् पितुः। सभार्यः सह च भ्रात्रा वीरः प्रव्राजितो वनम् ॥ ०८॥ तेन तत्र महारण्ये मृगयां परिधावता। राक्षसा निहताः शूरा बहवः कामरूपिणः ॥ ०९॥ जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ। ततस्त्वमर्षापहृता जानकी रावणेन तु ॥ १०॥ वञ्चयित्वा वने रामं मृगरूपेण मायया। स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम् ॥ ११॥ आससाद वने मित्रं सुग्रीवं नाम वानरम्। ततः स वालिनं हत्वा रामः परपुरंजयः ॥ १२॥ प्रायच्छत् कपिराज्यं तत् सुग्रीवाय महाबलः। सुग्रीवेणापि संदिष्टा हरयः कामरूपिणः ॥ १३॥ दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः। अहं संपातिवचनाच्छतयोजनमायतम् ॥ १४॥ अस्या हेतोर्विशालाक्ष्याः सागरं वेगवान् प्लुतः। यथारूपां यथावर्णां यथालक्ष्मीं च निश्चिताम् ॥ १५॥ अश्रौषं राघवस्याहं सेयमासादिता मया। विररामैवमुक्त्वासौ वाचं वानरपुंगवः ॥ १६॥ जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता। ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् ॥ १७ उन्नम्य वदनं भीरुः शिंशपामन्ववैक्षत॥ निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य। स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती ॥ १८॥ सा तिर्यगूर्ध्वं च तथाप्यधस्तात् निरीक्षमाणा तमचिन्त्यबुद्धिम्। ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम् ॥ १९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे रामवृत्तसंश्रवो नाम एकत्रिंशः सर्गः ॥५-३१॥