home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भागवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
सुन्दरकाण्डम्

द्वात्रिंशः सर्गः॥५-३२॥

॥सीतावितर्कः॥

[ सीताया वितर्कः ]

ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा। वेष्टितार्जुनवस्त्रं तं विद्युत्सङ्घातपिङ्गलम् ॥ ०१॥ सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम्। पुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ॥ ०२॥ मैथिली चिन्तयामास विस्मयं परमं गता। अहो भीममिदं रूपं वानरस्य दुरासदम् ॥ ०३॥ दुर्निरीक्ष्यमिति ज्ञात्वा पुनरेव मुमोह सा। विललाप भृशं सीता करुणं भयमोहिता ॥ ०४॥ राम रामेति दुःखार्ता लक्ष्मणेति च भामिनी। रुरोद बहुधा सीता मन्दं मन्दस्वरा सती ॥ ०५॥ सा तं दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम्। मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी ॥ ०६॥ सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम्। ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं बुद्धिमतां वरिष्ठम् ॥ ०७॥ सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेव बभूव सीता। चिरेण संज्ञां प्रतिलभ्य भूयो विचिन्तयामास विशालनेत्रा ॥ ०८॥ स्वप्नो मयायं विकृतोऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः। स्वस्त्य्स्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ॥ ०९॥ स्वप्नोऽपि नायं न हि मेऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः। सुखं हि मे नास्ति यतोऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन ॥ १०॥ रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव। तस्यानुरूपां च कथां तमर्थमेवं प्रपश्यामि तथा शृणोमि ॥ ११॥ अहं हि तस्याद्य मनोभवेन संपीडिता तद्गतसर्वभावा। विचिन्तयन्ती सततं तमेव तथैव पश्यामि यथा शृणोमि ॥ १२॥ मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्या च वितर्कयामि। किं कारणं तस्य हि नास्ति रूपं सुव्यक्त रूपश्च वदत्ययं माम् ॥ १३॥ नमोऽस्तु वाचस्पतये सवज्रिणे स्वयंभुवे चैव हुताशनाय च। अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथास्तु नान्यथा ॥ १४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे सीतावितर्को नाम द्वात्रिंशः सर्गः ॥५-३२॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध