home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भागवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
सुन्दरकाण्डम्

एकचत्वारिंशः सर्गः॥५-४१॥

॥प्रमदावनभञ्जनम्॥

[ हनुमता प्रमदावनस्य विध्वंसः ]

स च वाग्भिः प्रशस्ताभिर्गमिष्यन् पूजितस्तया। तस्माद्देशादपक्रम्य चिन्तयामास वानरः॥ ०१॥ अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा। त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते॥ ०२॥ न साम रक्षःसु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते। न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते॥ ०३॥ न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते। हतप्रवीराश्च रणे हि राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम्॥ ०४॥ कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत्। पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति॥ ०५॥ न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः। यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने॥ ०६॥ इहैव तावत् कृतनिश्चयो ह्यहं यदि व्रजेयं प्लवगेश्वरालयम्। परात्मसम्मर्दविशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम्॥ ०७॥ कथं नु खल्वद्य भवेत् सुखागतं प्रसह्य युद्धं मम राक्षसैः सह। तथैव खल्वात्मबलं च सारवत् संमानयेन्मां च रणे दशाननः॥ ०८॥ ततः समासाद्य रणे दशाननं समन्त्रिवर्गं सबलप्रयायिनम्। हृदि स्थितं तस्य मतं बलं च वै सुखेन मत्त्वाहमितः पुनर्व्रजे॥ ०९॥ इदमस्य नृशंसस्य नन्दनोपममुत्तमम्। वनं नेत्रमनः कान्तं नानाद्रुमलतायुतम्॥ १०॥ इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः। अस्मिन् भग्ने ततः कोपं करिष्यति दशाननः॥ ११ ततो महत् साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः। त्रिशूलकालायसपट्टसायुधं ततो महद्युद्धमिदं भविष्यति॥ १२॥ अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसह्यविक्रमः। निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम्॥ १३॥ ततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः। ऊरुवेगेन महता द्रुमान् क्षेप्तुमथारभत्॥ १४॥ ततस्तु हनुमान् वीरो बभञ्ज प्रमदावनम्। मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम्॥ १५॥ तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः। चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम्॥ १६॥ नानाशकुन्तविरुतैः प्रभिन्नैः सलिलाशयैः। ताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम्॥ १७॥ न बभौ तद्वनं तत्र दावानलहतं यथा। व्याकुलावरणा रेजुर्विह्वला इव ता लताः॥ १८॥ लतागृहैश्चित्रगृहैश्च नाशितैः महोरगैर्व्यालमृगैश्च निर्धुतैः। शिलागृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभून्महद्वनम्॥ १९॥ सा विह्वलाशोकलताप्रताना वनस्थली शोकलताप्रताना। जाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य॥ २०॥ स तस्य कृत्वार्थपतेर्महाकपिर् महद्व्यलीकं मनसो महात्मनः। युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमास्थितः कपिः॥ २१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे प्रमद्रावनभञ्जनं नाम एकचत्वारिंशः सर्गः ॥५-४१॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध