home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भागवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
सुन्दरकाण्डम्

द्विचत्वारिशः सर्गः॥५-४२॥

॥किंकरनिषूदनम्॥

[ राक्षसीभ्यो वनविध्वंसवार्तामाकर्ण्य रावणेन किङ्कराणां प्रेषणं हनुमता तेषां संहारश्च ]

ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च। बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः॥ ०१॥ विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः। रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे॥ ०२॥ ततो गतायां निद्रायां राक्षस्यो विकृताननाः। तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम्॥ ०३॥ स ता दृष्ट्वा महाबाहुर्महासत्त्वो महाबलः। चकार सुमहद्रूपं राक्षसीनां भयावहम्॥ ०४॥ ततस्तं गिरिसंकाशमतिकायं महाबलम्। राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम्॥ ०५॥ कोऽयं कस्य कुतो वायं किंनिमित्तमिहागतः। कथं त्वया सहानेन संवादः कृत इत्युत॥ ०६॥ आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम्। संवादमसितापाङ्गे त्वया किं कृतवानयम्॥ ०७॥ अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गसुन्दरी। रक्षसां भीमरूपाणां विज्ञाने मम का गतिः॥ ०८॥ यूयमेवाभिजानीत योऽयं यद्वा करिष्यति। अहिरेव ह्यहेः पादान् विजानाति न संशयः॥ ०९॥ अहमप्यस्य भीतास्मि नैनं जानामि को न्वयम्। वेद्मि राक्षसमेवैनं कामरूपिणमागतम्॥ १०॥ वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशः। स्थिताः काश्चित्गताः काश्चिद्रावणाय निवेदितुम्॥ ११॥ रावणस्य समीपे तु राक्षस्यो विकृताननाः। विरूपं वानरं भीममाख्यातुमुपचक्रमुः॥ १२॥ अशोकवनिकामध्ये राजन् भीमवपुः कपिः। सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः॥ १३॥ न च तं जानकी सीता हरिं हरिणलोचणा। अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति॥ १४॥ वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा। प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया॥ १५॥ तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम्। नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम्॥ १६॥ न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः। यत्र सा जानकी सीता स तेन न विनाशितः॥ १७॥ जानकीरक्षणार्थं वा श्रमाद्वा नोपलक्ष्यते। अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता॥ १८॥ चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता। प्रवृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः॥ १९॥ तस्योग्ररूपस्योग्रं त्वं दण्डमाज्ञातुमर्हसि। सीता संभाषिता येन तद्वनं च विनाशितम्॥ २०॥ मनःपरिगृहीतां तां तव रक्षोगणेश्वर। कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः॥ २१॥ राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः। हुताग्निरिव जज्वाल कोपसंवर्तितेक्षणः॥ २२॥ तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नस्रबिन्दवः। दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः॥ २३॥ आत्मनः सदृशाञ्शूरान् किंकरान्नाम राक्षसान्। व्यादिदेश महातेजा निग्रहार्थं हनूमतः॥ २४॥ तेषामशीतिसाहस्रं किंकराणां तरस्विनाम्। निर्ययुर्भवनात्तस्मात् कूटमुद्गरपाणयः॥ २५॥ महोदरा महादंष्ट्रा घोररूपा महाबलाः। युद्धाभिमनसः सर्वे हनुमद्ग्रहणोन्मुखाः॥ २६॥ ते कपिं तं समासाद्य तोरणस्थमवस्थितम्। अभिपेतुर्महावेगाः पतङ्गा इव पावकम्॥ २७॥ ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः। आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसंनिभैः॥ २८॥ मुद्गरैः पट्टिसैः शूलैः प्रासतोमरशक्तिभिः। परिवार्य हनूमन्तं सहसा तस्थुरग्रतः॥ २९॥ हनुमानपि तेजस्वी श्रीमान् पर्वतसंनिभः। क्षितावाविध्य लाङ्गूलं ननाद च महास्वनम्॥ ३०॥ स भूत्वा सुमहाकायो हनुमान् मारुतात्मजः। धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन्॥ ३१॥ तस्यास्फोटितशब्देन महता चानुनादिना। पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत्॥ ३२॥ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः॥ ३३॥ दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः। हनुमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः॥ ३४॥ न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्। शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः॥ ३५॥ अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्। समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्॥ ३६॥ तस्य संनादशब्देन तेऽभवन् भयशङ्किताः। ददृशुश्च हनूमन्तं संध्यामेघमिवोन्नतम्॥ ३७॥ स्वामिसंदेशानिःशङ्कास्ततस्ते राक्षसाः कपिम्। चित्रैः प्रहरणैर्भीमैरभिपेतुः सहस्रशः॥ ३८॥ स तैः परिवृतः शूरैः सर्वतः स महाबलः। आससादायसं भीमं परिघं तोरणाश्रितम्॥ ३९॥ स तं परिघमादाय जघान च निशाचरान्। स पन्नगमिवादाय स्फुरन्तं विनतासुतः॥ ४०॥ विचचाराम्बरे वीरः परिगृह्य च मारुतिः। स हत्वा राक्षसान् वीरान् किंकरान् मारुतात्मजः॥ ४१॥ युद्धकाङ्क्षी पुनर्वीरस्तोरणं समुपाश्रितः। ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः॥ ४२॥ निहतान् किंकरान् सर्वान् रावणाय न्यवेदयन्॥ स राक्षसानां निहतं महद्बलं निशम्य राजा परिवृत्तलोचनः। समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम्॥ ४३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे किंकरनिषूदनं नाम द्विचत्वारिंशः सर्गः ॥५-४२॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध