सेनापतीन् पञ्च स तु प्रमापितान् हनूमता सानुचरान् सवाहनान्। निशम्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताक्षतः॥ ०१॥ स तस्य दृष्ट्यर्पणसंप्रचोदितः प्रतापवान् काञ्चनचित्रकार्मुकः। समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः॥ ०२॥ ततो महान् बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसंततम्। रथं समास्थाय ययौ स वीर्यवान् महाहरिं तं प्रति नैर्ऋतर्षभः॥ ०३॥ ततस्तपः संग्रहसंचयार्जितं प्रतप्तजाम्बूनदजालशोभितम्। पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम्॥ ०४॥ सुरासुराधृष्यमसङ्गचारिणं रविप्रभं व्योमचरं समाहितम्। सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम्॥ ०५॥ विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्चसा। दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः॥ ०६॥ स पूरयन् खं च महीं च साचलां तुरङ्गमातङ्गमहारथस्वनैः। बलैः समेतैः स हि तोरणस्थितं समर्थमासीनमुपागमत् कपिम्॥ ०७॥ स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये। अवस्थितं विस्मितजातसंभ्रमः समैक्षताक्षो बहुमानचक्षुषा॥ ०८॥ स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु रावणात्मजः। विचारयन् स्वं च बलं महाबलो युगक्षये सूर्य इवाभिवर्धते॥ ०९॥ स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरं स्थितः संयसि दुर्निवारणम्। समाहितात्मा हनुमन्तमाहवे। प्रचोदयामास शरैस्त्रिभिः शितैः॥ १०॥ ततः कपिं तं प्रसमीक्ष्य गर्वितं जित श्रमं शत्रुपराजयोर्जितम्। अवैक्षताक्षः समुदीर्णमानसः स बाणपाणिः प्रगृहीतकार्मुकः॥ ११॥ स हेमनिष्काङ्गदचारुकुण्डलः समाससादाशुपराक्रमः कपिम्। तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि संभ्रमप्रदः॥ १२॥ ररास भूमिर्न तताप भानुमान् ववौ न वायुः प्रचचाल चाचलः। कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च द्यौरुदधिश्च चुक्षुभे॥ १३॥ ततः स वीरः सुमुखान् पतत्रिणः सुवर्णपुङ्खान् सविषानिवोरगान्। समाधिसंयोगविमोक्षतत्त्व विच्छरानथ त्रीन् कपिमूर्ध्न्यपातयत्॥ १४॥ स तैः शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तलोचनः। नवोदितादित्यनिभः शरांशुमान् व्यरोचतादित्य इवांशुमालिकः॥ १५॥ ततः स पिङ्गाधिपमन्त्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे। उदग्रचित्तायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः॥ १६॥ स मन्दराग्रस्थ इवांशुमालीको विवृद्धकोपो बलवीर्यसंयुतः। कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा॥ १७॥ ततः स बाणासनचित्रकार्मुकः शरप्रवर्षो युधि राक्षसाम्बुदः। शरान् मुमोचाशु हरीश्वराचले बलाहको वृष्टिमिवाचलोत्तमे॥ १८॥ ततः कपिस्तं रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसंचयम्। कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद्घनतुल्यनिःस्वनः॥ १९॥ स बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः। समाससादाप्रतिमं कपिं रणे गजो महाकूपमिवावृतं तृणैः॥ २०॥ स तेन बाणैः प्रसभं निपातितैश्चकार नादं घननादनि:स्वनः। समुत्पपाताशु नभः स मारुतिः भुजोरुविक्षेपणघोरदर्शनः॥ २१॥ समुत्पतन्तं समभिद्रवद्बली स राक्षसानां प्रवरः प्रतापवान्। रथी रथीश्रेष्ठतमः किरन्शरैः पयोधरः शैलमिवाश्मवृष्टिभिः॥ २२॥ स ताञ्शरांस्तस्य विमोक्षयन् कपिः चचार वीरः पथि वायुसेविते। शरान्तरे मारुतवद्विनिष्पतन् मनोजवः संयति चण्डविक्रमः॥ २३॥ तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विविधैः शरोत्तमैः। अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मारुतात्मजः॥ २४॥ ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवीर्येण महात्मना नदन्। महाभुजः कर्मविशेषतत्त्ववित् विचिन्तयामास रणे पराक्रमम्॥ २५॥ अबालवद्बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः। न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते॥ २६॥ अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे। असंशयं कर्मगुणोदयादयं सनागयक्षैर्मुनिभिश्च पूजितः॥ २७॥ पराक्रमोत्साहविवृद्धमानसः समीक्षते मां प्रमुखागतः स्थितः। पराक्रमो ह्यस्य मनांसि कम्पयेत् सुरासुराणामपि शीघ्रगामिनः॥ २८॥ न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते। प्रमापणं त्वेव ममास्य रोचते न वर्धमानोऽग्निरुपेक्षितुं क्षमः॥ २९॥ इति प्रवेगं तु परस्य तर्कयन् स्वकर्मयोगं च विधाय वीर्यवान्। चकार वेगं तु महाबलस्तदा मतिं च चक्रेऽस्य वधे महाकपिः॥ ३०॥ स तस्य तानष्ट हयान् महाजवान् समाहितान् भारसहान् विवर्तने। जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः॥ ३१॥ ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः। प्रभग्ननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात्॥ ३२॥ स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतन्। ततोऽभियोगादृषिरुग्रवीर्यवान् विहाय देहं मरुतामिवालयम्॥ ३३॥ ततः कपिस्तं विचरन्तमम्बरे पतत्रिराजानिलसिद्धसेविते। समेत्य तं मारुततुल्यविक्रमः क्रमेण जग्राह स पादयोर्दृढम्॥ ३४॥ स तं समाविध्य सहस्रशः कपिः महोरगं गृह्य इवाण्डजेश्वरः। मुमोच वेगात् पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः॥ ३५॥ स भग्नबाहूरुकटीशिरोधरः क्षरन्नसृङ्निर्मथितास्थिलोचनः। प्रभिन्नसन्धिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः॥ ३६॥ महाकपिर्भूमितले निपीड्य तं चकार रक्षोऽधिपतेर्महद्भयम्। महर्षिभिश्चक्र चरैर्महाव्रतैः समेत्य भूतैश्च सयक्षपन्नगैः॥ ३७॥ सुरैश्च सेन्द्रैर्भृशजातविस्मयैर्हते कुमारे स कपिर्निरीक्षितः। निहत्य तं वज्रिसुतोपमं रणे कुमारमक्षं क्षतजोपमेक्षणम्॥ तदेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये॥ ३८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे अक्षकुमारवधो नाम सप्तचत्वारिंशः सर्गः ॥५-४७॥