home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भागवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
सुन्दरकाण्डम्

अष्टचत्वारिंशः सर्गः॥५-४८॥

॥इन्द्रजिदभियोगः॥

[ इन्द्रजिद्धनुमतोर्युद्धमिन्द्रजिद्दिव्यास्त्रबन्धनबद्धस्य हनुमतो रावणस्य राजसभायां गमनम् ]

ततस्तु रक्षोऽधिपतिर्महात्मा हनूमताक्षे निहते कुमारे। मनः समाधाय तदेन्द्र्कल्पं समादिदेशेन्द्रजितं स रोषात्॥ ०१॥ त्वमस्त्रविच्छस्त्रविदां वरिष्ठः सुरासुराणामपि शोकदाता। सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनसंचितास्त्रः॥ ०२॥ तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः। न शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः॥ ०३॥ न कश्चित् त्रिषु लोकेषु संयुगे नगतश्रमः। भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षित:॥ देशकालविभागज्ञस्त्वमेव मतिसत्तमः॥ ०४॥ न तेऽस्त्यशक्यं समरेषु कर्मणा न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे। न सोऽस्ति कश्चित् त्रिषु संग्रहेषु वै न वेद यस्तेऽस्त्रबलं बलं च ते॥ ०५॥ ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे। न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम्॥ ०६॥ निहताः किङ्कराः सर्वे जम्बुमाली च राक्षसः। अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः॥ ०७॥ बलानि सुसमृद्धानि साश्वनागरथानि च। सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः॥ न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन॥ ०८॥ इदं हि दृष्ट्वा मतिमन् महद्बलं कपेः प्रभावं च पराक्रमं च। त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम्॥ ०९॥ बलावमर्दस्त्वयि संनिकृष्टे यथागते शाम्यति शान्तशत्रौ। तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ॥ १०॥ न वीर सेना गणशो च्यवन्ति न वज्रमादाय विशालसारम्। न मारुतस्यास्य गतिप्रमाणं न चाग्निकल्पः करणेन हन्तुम्॥ ११॥ तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा। स्मरंश्च दिव्यं धनुषोऽस्त्रवीर्यं व्रजाक्षतं कर्म समारभस्व॥ १२॥ न खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम्। इयं च राजधर्माणां क्षत्त्रयस्य च मतिर्मता॥ १३॥ नानाशस्त्रैश्च संग्रामे वैशारद्यमरिन्दम। अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे॥ १४॥ ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः। चकार भर्तारमहीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः॥ १५॥ ततस्तैः स्वगणैरिष्टैरिन्द्रजित् प्रतिपूजितः। युद्धोद्धतः कृतोत्साहः संग्रामं प्रत्यपद्यत॥ १६॥ श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः। निर्जगाम महातेजाः समुद्र इव पर्वसु॥ १७॥ स पक्षिराजानिलतुल्यवेगै र्व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः। रथं समायुक्तमसङ्गवेगं समारुरोहेन्द्रजिदिन्द्रकल्पः॥ १८॥ स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः। रथेनाभिययौ क्षिप्रं हनुमान् यत्र सोऽभवत्॥ १९॥ स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च। निशम्य हरिवीरोऽसौ संप्रहृष्टतरोऽभवत्॥ २०॥ सुमहाच्चापमादाय शितशल्यांश्च सायकान्। हनुमन्तमभिप्रेत्य जगाम रणपण्डितः॥ २१॥ तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ। दिशश्च सर्वाः कलुषा बभूवु र्मृगाश्च रौद्रा बहुधा विनेदुः॥ २२॥ समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः। नभः समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परमप्रहृष्टाः॥ २३॥ आयान्तं सरथं दृष्ट्वा तूर्णमन्द्रिजितं कपिः। विननाद महानादं व्यवर्धत च वेगवान्॥ २४॥ इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः। धनुर्विष्फारयामास तटिदूर्जितनिःस्वनम्॥ २५॥ ततः समेतावतितीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ। कपिश्च रक्षोऽधिपतेश्च पुत्रः सुरासुरेन्द्राविव बद्धवैरौ॥ २६॥ स तस्य वीरस्य महारथस्य धनुष्मतः संयति संमतस्य। शरप्रवेगं व्यहनत् प्रवृद्ध श्चचार मार्गे पितुरप्रमेयः॥ २७॥ ततः शरानायततीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान्। मुमोच वीरः परवीरहन्ता सुसंनतान् वज्रनिपातवेगान्॥ २८॥ स तस्य तु स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च। विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात॥ २९॥ शराणामन्तरेष्वाशु व्यवर्तत महाकपिः। हरिस्तस्याभिलक्ष्यस्य मोघयल्लँक्ष्यसंग्रहम्॥ ३०॥ शराणामग्रतस्तस्य पुनः समभिवर्तत। प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः॥ ३१॥ तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ। सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम्॥ ३२॥ हनुमतो वेद न राक्षसोऽन्तरं न मारुतिस्तस्य महात्मनोऽन्तरम्। परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ॥ ३३॥ ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च संपतत्सु जगाम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा॥ ३४॥ ततो मतिं राक्षसराजसूनु श्चकार तस्मिन् हरिवीरमुख्ये। अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम्॥ ३५॥ ततः पैतामहं वीरः सोऽस्त्रमस्त्रविदां वरः। संदधे सुमहातेजास्तं हरिप्रवरं प्रति॥ ३६॥ अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित्। निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित्॥ ३७॥ तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः। अभवन्निर्विचेष्टश्च पपात स महीतले॥ ३८॥ ततोऽथ बुद्ध्वा स तदस्त्रबन्धं प्रभोः प्रभावाद्विगतात्मवेगः। पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः॥ ३९॥ ततः स्वायंभुवैर्मन्त्रै: र्ब्रह्मास्त्रमभिमन्त्रितम्। हनुमांश्चिन्तयामास वरदानं पितामहात्॥ ४०॥ न मेऽस्य बन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात्। इत्येव मत्वा विहितोऽस्त्रबन्धो मयात्मयोनेरनुवर्तितव्यः॥ ४१॥ स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च। विमोक्षशक्तिं परिचिन्तयित्वा पितामाहाज्ञामनुवर्तते स्म॥ ४२॥ अस्त्रेणापि हि बद्धस्य भयं मम न जायते। पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च॥ ४३॥ ग्रहणे चापि रक्षोभिर्महन् मे गुणदर्शनः। राक्षसेन्द्रेण संवादस्तस्माद्गृह्णन्तु मां परे॥ ४४॥ स निश्चितार्थः परवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः। परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्तैः परिभर्त्स्यमानः॥ ४५॥ ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिन्दमम्। बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः॥ ४६॥ स रोचयामास परैश्च बन्धनं प्रसह्य वीरैरभिनिग्रहं च। कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्टुं व्यवस्येदिति निश्चितार्थः॥ ४७॥ स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान्। अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते॥ ४८॥ अथेन्द्रजित्तु द्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम्। विमुक्तमस्त्रेण जगाम चिन्तां नान्येन बद्धो ह्यनुवर्ततेऽस्त्रम्॥ ४९॥ अहो महत् कर्म कृतं निरर्थकं न राक्षसैर्मन्त्रगतिर्विमृष्टा। पुनश्च नास्त्रे विहतेऽस्त्रमन्यत् प्रवर्तते संशयिताः स्म सर्वे॥ ५०॥ अस्त्रेण हनुमान् मुक्तो नात्मानमवबुध्यत। कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः॥ ५१॥ हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः। समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः॥ ५२॥ अथेन्द्रजित्तं प्रसमीक्ष्य मुक्त मस्त्रेण बद्धं द्रुमचीरसूत्रैः। व्यदर्शयत्तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे॥ ५३॥ तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम्। राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्॥ ५४॥ कोऽयं कस्य कुतो वात्र किं कार्यं को व्यपाश्रयः। इति राक्षसवीराणां तत्र संजज्ञिरे कथाः॥ ५५॥ हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे। राक्षसास्तत्र संकुद्धाः परस्परमथाब्रुवन्॥ ५६॥ अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोऽधिपपादमूले ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्‌नविभूषितं च॥ ५७॥ स ददर्श महातेजा रावणः कपिसत्तमम्। रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः॥ ५८॥ राक्षसाधिपतिं चापि ददर्श कपिसत्तमः। तेजोबलसमायुक्तं तपन्तमिव भास्करम्॥ ५९॥ स रोषसंवर्तितताम्रदृष्टि र्दशाननस्तं कपिमन्ववेक्ष्य। अथोपविष्टान् कुलशीलवृद्धान् समादिशत्तं प्रति मन्त्रिमुख्यान्॥ ६०॥ यथाक्रमं तैः स कपिर्विपृष्टः कार्यार्थमर्थस्य च मूलमादौ। निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतोऽस्मि॥ ६१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे इन्द्रजिदभियोगो नाम अष्टचत्वारिंशः सर्गः॥५-४८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध