home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भागवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
सुन्दरकाण्डम्

षट्पञ्चाशः सर्गः॥५-५६॥

॥प्रतिप्रयाणोत्पतनम्॥

[ पुनः सीतां समालोक्य हनुमतो लङ्कातो निवर्तनं तेन समुद्रस्य लङ्घनं च ]

ततस्तां शिंशपामूले जानकीं पर्यवस्थिताम्। अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम्॥ ०१॥ ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः। भर्तृस्नेहान्वितं वाक्यं हनूमन्तमभाषत॥ ०२॥ काममस्य त्वमेवैकः कार्यस्य परिसाधने। पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः॥ ०३॥ शरैः सुसङ्कुलां कृत्वा लङ्कां परबलार्दनः। मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्॥ ०४॥ तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः। भवेदाहवशूरस्य तथा त्वमुपपादय॥ ०५॥ तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् । निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत्॥ ०६॥ क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः। यस्ते युधि विजित्यारीञ्शोकं व्यपनयिष्यति॥ ०७॥ एवमाश्वास्य वैदेहीं हनूमान् मारुतात्मजः। गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत्॥ ०८॥ ततः स कपिशार्दूलः स्वामिसंदर्शनोत्सुकः। आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः॥ ०९॥ तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः। सोत्तरीयमिवाम्भोदैः शृङ्गान्तरविलम्बिभिः॥ १०॥ बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः। उन्मिषन्तमिवोद्धूतैर्लोचनैरिव धातुभिः॥ ११॥ तोयौघनिःस्वनैर्मन्द्रैः प्राधीतमिव सर्वतः। प्रगीतमिव विस्पष्टैर्नानाप्रस्रवणस्वनैः॥ १२॥ देवदारुभिरत्युच्चैरूर्ध्वबाहुमिव स्थितम्। प्रपातजलनिर्घोषैः प्राक्रुष्टमिव सर्वतः॥ १३॥ वेपमानमिव श्यामैः कम्पमानैः शरद्घनैः । वेणुभिर्मारुतोद्धूतैः कूजन्तमिव कीचकैः॥ १४॥ निःश्वसन्तमिवामर्षाद्घोरैराशीविषोत्तमैः । नीहारकृतगम्भीरैर्ध्यायन्तमिव गह्वरैः॥ १५॥ मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः। जृम्भमाणमिवाकाशे शिखरैरभ्रशालिभिः॥ १६॥ कूटैश्च बहुधाकीर्णै: शोभितं बहुकन्दरैः। सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम्॥ १७॥ लतावितानैर्विततैः पुष्पवद्भिरलंकृतम्। नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम्॥ १८॥ बहुप्रस्रवणोपेतं शिलासंचयसंकटम्। महर्षियक्षगन्धर्वकिंनरोरगसेवितम्॥ १९॥ लतापादपसंबाधं सिंहाध्युषितकन्दरम्। व्याघ्रसङ्घसमाकीर्णं स्वादुमूलफलोदकम्॥ २०॥ तमारुरोह हनुमान् पर्वतं प्लवगोत्तमः। रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः॥ २१॥ तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु। सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः॥ २२॥ स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः। दक्षिणादुत्तरं पारं प्रार्थयल्ँलवणाम्भसः॥ २३॥ अधिरुह्य ततो वीरः पर्वतं पवनात्मजः। ददर्श सागरं भीमं मीनोरगनिषेवितम्॥ २४॥ स मारुत इवाकाशं मारुतस्यात्मसंभवः। प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम्॥ २५॥ स तदा पीडितस्तेन कपिना पर्वतोत्तमः । ररास सह तैर्भूतैः प्रविशन् वसुधातलम्॥ २६॥ कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः। तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः॥ २७॥ निपेतुर्भूतले रुग्णाः शक्रायुधहता इव। कन्दरोदरसंस्थानां पीडितानां महौजसाम्॥ २८॥ सिंहानां निनदो भीमो नभो भिन्दन् हि शुश्रुवे। स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणाः॥ २९॥ विद्याधर्यः समुत्पेतुः सहसा धरणीधरात्। अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः॥ ३०॥ निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः। किन्नरोरगगन्धर्वयक्षविद्याधरास्तदा॥ ३१॥ पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः। स च भूमिधरः श्रीमान् बलिना तेन पीडितः॥ ३२॥ सवृक्षशिखरोदग्रः प्रविवेश रसातलम् । दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः॥ ३३॥ धरण्यां समतां यातः स बभूव धराधरः। स लिलङ्घयिषुर्भीमं सलीलं लवणार्णवम्॥ ३४॥ कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः। ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे प्रतिप्रयाणोत्पतनं नाम षट्पञ्चाशः सर्गः॥५-५६॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध