home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भागवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
सुन्दरकाण्डम्

सप्तपञ्चाशः सर्गः॥५-५७॥

॥हनूमत्प्रत्यागमनम्॥

[ समुद्रमुल्लङ्घय हनुमतो जाम्बवदङ्गदप्रभृतिभिः सुहृद्भिः सह समागमः ]

सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम्। तिष्यश्रवणकादम्बमभ्रशैवालशाद्वलम्॥ ०१॥ पुनर्वसुमहामीनं लोहिताङ्गमहाग्रहम्। ऐरावतमहाद्वीपं स्वातीहंसविलोलितम्॥ ०२॥ वातसङ्घातजालोर्मि चन्द्रांशुशिशिराम्बुमत्। भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम्॥ ०३॥ हनुमान् मारुतगतिर्महानौरिव सागरम्। अपारमपरिश्रान्तः पुप्लुवे गगनार्णवम्॥ ०४॥ ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् । हरन्निव सनक्षत्रं गगनं सार्कमण्डलम्॥ ०५॥ मारुतस्यात्मजः श्रीमान् कपिर्व्योमचरो महान्। हनूमान् मेघजालानि विकर्षन्निव गच्छति॥ ०६॥ पाण्डरारुणवर्णानि नीलमाञ्जिष्ठकानि च। हरितारुणवर्णानि महाभ्राणि चकाशिरे॥ ०७॥ प्रविशन्नभ्रजालानि निष्क्रामंश्च पुनः पुनः । प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते॥ ०८॥ विविधाभ्रघनापन्नगोचरो धवलाम्बरः। दृश्यादृश्यतनुर्वीरस्तदा चन्द्रायतेऽम्बरे॥ ०९॥ तार्क्ष्यायमाणो गगने बभासे वायुनन्दनः। दारयन् मेघबृन्दानि निष्पतंश्च पुनः पुनः॥ १०॥ नदन्नादेन महता मेघस्वनमहास्वनः। प्रवरान् राक्षसान् हत्वा नाम विश्राव्य चात्मनः॥ ११॥ आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम्। अर्दयित्वा बलं घोरं वैदेहीमभिवाद्य च॥ १२॥ आजगाम महातेजाः पुनर्मध्येन सागरम्। पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान्॥ १३॥ ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः। स किंचिदनुसंप्राप्तः समालोक्य महागिरिम्॥ १४॥ महेन्द्रं मेघसंकाशं ननाद हरिपुंगवः। स पूरयामास कपिर्दिशो दश समन्ततः॥ १५॥ नदन्नादेव महता मेघस्वनमहास्वनः। स तं देशमनुप्राप्तः सुहृद्दर्शनलालसः॥ १६॥ ननाद हरिशार्दूलो लाङ्गूलं चाप्यकम्पयत्। तस्य नानद्यमानस्य सुपर्णाचरिते पथि॥ १७॥ फलतीवास्य घोषेण गगनं सार्कमण्डलम्। ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः॥ १८॥ पूर्वं संविष्ठिताः शूरा वायुपुत्रदिदृक्षवः। महतो वायुनुन्नस्य तोयदस्येव गर्जितम्॥ १९॥ शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः। ते दीनवदनाः सर्वे शुश्रुवुः काननौकसः॥ २०॥ वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम्। निशम्य नदतो नादं वानरास्ते समन्ततः॥ २१॥ बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः। जाम्बवांस्तु हरिश्रेष्ठः प्रीतिसंहृष्टमानसः॥ २२॥ उपामन्त्र्य हरीन् सर्वानिदं वचनमब्रवीत्। सर्वथा कृतकार्योऽसौ हनूमान्नात्र संशयः॥ २३॥ न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् । तस्य बाहूरुवेगं च निनादं च महात्मनः॥ २४॥ निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः। ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च॥ २५॥ प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः। ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुपुष्पिताः॥ २६॥ वासांसिव प्रशाखाश्च समाविध्यन्त वानराः। गिरिगह्वरसंलीनो यथा गर्जति मारुतः॥ २७॥ एवं जगर्ज बलवान् हनूमान् मारुतातमजः। तमभ्रघनसंकाशमापतन्तं महाकपिम्॥ २८॥ दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्चलयस्तदा। ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः॥ २९॥ निपपात महेन्द्रस्य शिखरे पादपाकुले। हर्षेणापूर्यमाणोऽसौ रम्ये पर्वतनिर्झरे॥ ३०॥ छिन्नपक्ष इवाकाशात् पपात धरणीधरः। ततस्ते प्रीतमनसः सर्वे वानरपुंगवाः॥ ३१॥ हनूमन्तं महात्मानं परिवार्योपतस्थिरे। परिवार्य च ते सर्वे परां प्रीतिमुपागताः॥ ३२॥ प्रहृष्टवदनाः सर्वे तमरोगमुपागतम्। उपायनानि चादाय मूलानि च फलानि च॥ ३३॥ प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम्। हनूमांस्तु गुरून् वृद्धाञ्जाम्बवत्प्रमुखांस्तदा॥ ३४॥ कुमारमङ्गदं चैव सोऽवन्दत महाकपिः। स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः॥ ३५॥ दृष्टा सीतेति विक्रान्तः संक्षेपेण न्यवेदयत्। निषसाद च हस्तेन गृहीत्वा वालिनः सुतम्॥ ३६॥ रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा। हनूमानब्रवीद्धृष्टस्तदा तान् वानरर्षभान्॥ ३७॥ अशोकवनिकासंस्था दृष्टा सा जनकात्मजा। रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता॥ ३८॥ एकवेणीधरा दीना रामदर्शनलालसा। उपवासपरिश्रान्ता जटिला मलिना कृशा॥ ३९॥ ततो दृष्टेति वचनं महार्थममृतोपमम्। निशम्य मारुतेः सर्वे मुदिता वानरा भवन्॥ ४०॥ क्ष्वेलन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः। चक्रुः किलकिलामन्ये प्रतिगर्जन्ति चापरे॥ ४१॥ केचिदुच्छ्रितलांगूलाः प्रहृष्टाः कपिकुञ्जराः। अञ्चितायतदीर्घाणि लांगूलानि प्रविव्यधुः॥ ४२॥ अपरे तु हनूमन्तं वानरा वारणोपमम्। आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः॥ ४३॥ उक्तवाक्यं हनूमन्तमङ्गदस्तमथाब्रवीत्। सर्वेषां हरिवीराणां मध्ये वाचमनुत्तमाम्॥ ४४॥ सत्त्वे वीर्ये न ते कश्चित् समो वानर विद्यते। यद्वप्लुत्य विस्तीर्णं सागरं पुनरागतः॥ ४५॥ जीवितस्य प्रदाता नस्त्वमेको वानरोत्तम। त्वत्प्रसादात् समेष्यामः सिद्धार्था राघवेण तु॥ ४६॥ अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः। दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी॥ ४७॥ दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीतावियोगजम्। ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः॥ ४८॥ परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः। श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः॥ ४९॥ दर्शनं चापि लङ्कायाः सीताया रावणस्य च। तस्थुः प्राञ्जलयः सर्वे हनुमद्वदनोन्मुखाः॥ ५०॥ तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः। उपास्यमानो विबुधैर्दिवि देवपतिर्यथा॥ ५१॥ हनूमता कीर्तिमता यशस्विना तथाङ्गदेनाङ्गदबद्धबाहुना। मुदा तदाध्यासितमुन्नतं महन् महीधराग्रं ज्वलितं श्रियाभवत्॥ ५२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे हनूमत्प्रत्यागमनं नाम सप्तपञ्चाशः सर्गः॥५-५७॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध