एतदाख्याय तत् सर्वं हनूमान् मारुतात्मजः। भूयः समुपचक्राम वचनं वक्तुमुत्तरम्॥ ०१॥ सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः। शीलमासाद्य सीताया मम च प्रवणं मनः॥ ०२॥ तपसा धारयेल्लेकान् क्रुद्धो वा निर्दहेदपि । सर्वथातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः॥ ०३॥ तस्य तां स्पृशतो गात्रं तपसा न विनाशितम्। न तदग्निशिखा कुर्यात् संस्पृष्टा पाणिना सती॥ ०४॥ जनकस्यात्मजा कुर्याद्यत् क्रोधकलुषीकृता। जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन्॥ ०५॥ अस्मिन्नेवंगते कार्ये भवतां च निवेदिते। न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ॥ ०६॥ अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम्। तां लङ्कां तरसा हन्तुं रावणं च महाबलम्॥ ०७॥ किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः। कृतास्त्रैः प्लवगैः शूरैर्भवद्भिर्विजयैषिभिः॥ ०८॥ अहं तु रावणं युद्धे ससैन्यं सपुरःसरम्। सहपुत्रं वधिष्यामि सहोदरयुतं युधि॥ ०९॥ ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा । यदि शक्रजितोऽस्त्राणि दुर्निरीक्ष्याणि संयुगे॥ १०॥ तान्यहं विधष्यामि निहनिष्यामि राक्षसान्। भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम्॥ ११॥ मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा । देवानपि रणे हन्यात् किं पुनस्तान्निशाचरान्॥ १२॥ सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि। न जाम्बवन्तं समरे कम्पयेदरिवाहिनी॥ १३॥ सर्वराक्षससङ्घानां राक्षसा ये च पूर्वकाः। अलमेको विनाशाय वीरो वालिसुतः कपिः॥ १४॥ पनसस्योरुवेगेन नीलस्य च महात्मनः। मन्दरोऽपि विशीर्येत किं पुनर्युधि राक्षसाः॥ १५॥ सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु। मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा॥ १६॥ अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ। एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे॥ १७॥ पितामहवरोत्सेकात् परमं दर्पमास्थितौ। अमृतप्राशिनावेतौ सर्ववानरसत्तमौ॥ १८॥ अश्विनोर्माननार्थं हि सर्वलोकपितामहः। सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा॥ १९॥ वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम्। सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ॥ २०॥ एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम् । लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः॥ २१॥ मयैव निहता लङ्का दग्धा भस्मीकृता पुनः। राजमार्गेषु सर्वत्र नाम विश्रावितं मया॥ २२॥ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः॥ २३॥ अहं कोसलराजस्य दासः पवनसंभवः। हनुमानिति सर्वत्र नाम विश्रावितं मया॥ २४॥ अशोकवनिकामध्ये रावणस्य दुरात्मनः । अधस्ताच्छिंशपावृक्षे साध्वी करुणमास्थिता॥ २५॥ राक्षसीभिः परिवृता शोकसंतापकर्शिता। मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा॥ २६॥ अचिन्तयन्ती वैदेही रावणं बलदर्पितम्। पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी॥ २७॥ अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा । अनन्यचित्ता रामे च पौलेमीव पुरंदरे॥ २८॥ तदेकवासः संवीता रजोध्वस्ता तथैव च। शोकसंतापदीनाङ्गी सीता भर्तृहिते रता॥ २९॥ सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः। राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने॥ ३०॥ एकवेणीधरा दीना भर्तृचिन्तापरायणा। अधः शय्या विवर्णाङ्गी पद्मिनीव हिमागमे॥ ३१॥ रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया। कथंचिन्मृगशाबाक्षी विश्वासमुपपादिता॥ ३२॥ ततः संभाषिता चैव सर्वमर्थं च दर्शिता। रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता॥ ३३॥ नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा। यन्न हन्ति दशग्रीवं स महात्मा दशाननः॥ ३४॥ निमित्तमात्रं रामस्तु वधे तस्य भविष्यति। सा प्रकृत्यैवः तन्वङ्गी तद्वियोगाच कर्शिता॥ ३५॥ प्रतिपत्पाठशीलस्य विद्येव तनुतां गता । एवमास्ते महाभागा सीता शोकपरायणा॥ ३६॥ यदत्र प्रतिकर्तव्यं तत् सर्वमुपपाद्यताम्। ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे अनन्तरकार्यप्ररोचनं नाम एकोनषष्टितमः सर्गः॥५-५९॥