home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भागवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
सुन्दरकाण्डम्

षष्टितमः सर्गः॥५-६०॥

॥अङ्गदजाम्बवत्संवादः॥

[ लङ्कां जित्वा सीताया आनयनार्थमङ्गदस्योत्साह- समन्वितो विचारो जाम्बवता तस्य निवारणं च ]

तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत। अयुक्तं तु विना देवीं दृष्ट्वद्भिश्च वानराः॥ ०१॥ समीपं गन्तुमस्माभी राघवस्य महात्मनः। दृष्टा देवी न चानीता इति तत्र निवेदनम्॥ ०२॥ अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः। न हि नः प्लवने कश्चिननापि कश्चित् पराक्रमे॥ ०३॥ तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः। तेष्वेवं हतवीरेषु राक्षसेषु हनूमता॥ ०४॥ किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम्। रामलक्ष्मणयोर्मध्ये न्यस्याम जनकात्मजाम्॥ ०५॥ किं व्यलीकैस्तु तान् सर्वान् वानरान् वानरर्षभान्। वयमेव हि गत्वा तान् हत्वा राक्षसपुंगवान्॥ ०६॥ राघवं द्रष्टुमर्हामः सुग्रीवं सहलक्ष्मणम्। तमेवं कृतसंकल्पं जाम्बवान् हरिसत्तमः॥ ०७॥ उवाच परमप्रीतो वाक्यमर्थवदर्थवित्। नैषा बुद्धिर्महाबुद्धे यद्ब्रवीषि महाकपे॥ ०८॥ विचेतुं वयमाज्ञाप्ता दक्षिणां दिशमुत्तमाम्। नानेतुं कपिराजेन नैव रामेण धीमता॥ ०९॥ कथंचिन्निर्जितां सीतामस्माभिर्नाभिरोचयेत्। राघवो नृपशार्दूलः कुलं व्यपदिशन् स्वकम्॥ १०॥ प्रतिज्ञाय स्वयं राजा सीताविजयमग्रतः। सर्वेषां कपिमुख्यानां कथं मिथ्या करिष्यति॥ ११॥ विफलं कर्म च कृतं भवेत्तुष्टिर्न तस्य च। वृथा च दर्शितं वीर्यं भवेद्वानरपुंगवाः॥ १२॥ तस्माद्गच्छाम वै सर्वे यत्र रामः सलक्ष्मणः। सुग्रीवश्च महातेजाः कार्यस्यास्य निवेदने॥ १३॥ न तावदेषा मतिरक्षमा नो यथा भवान् पश्यति राजपुत्र। यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धिम्॥ १४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे अङ्गदजाम्बवत्संवादो नाम षष्टितमः सर्गः॥५-६०॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध