ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः। अङ्गदप्रमुखा वीरा हनुमांश्च महाकपिः॥ ०१॥ प्प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः। महेन्द्राग्रं परित्यज्य पुप्लुवुः प्लवगर्षभाः॥ ०२॥ मेरुमन्दरसंकाशा मत्ता इव महागजाः। छादयन्त इवाकाशं महाकाया महाबलाः॥ ०३॥ सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम्। हनुमन्तं महावेगं वहन्त इव दृष्टिभिः॥ ०४॥ राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः। समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः॥ ०५॥ प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः। सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः॥ ०६॥ प्लवमानाः खमुत्पत्य ततस्ते काननौकसः। नन्दनोपममासेदुर्वनं द्रुमलतायुतम्॥ ०७॥ यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम्। अधृष्यं सर्वभूतानां सर्वभूतमनोहरम्॥ ०८॥ यद्रक्षति महावीर्यः सदा दधिमुखः कपिः। मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः॥ ०९॥ ते तद्वनमुपागम्य बभूवुः परमोत्कटाः। वानरा वानरेन्द्रस्य मनःकान्ततमं महत् ॥ १०॥ ततस्ते वानरा हृष्टा दृष्टवा मधुवनं महत्। कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः॥ ११॥ ततः कुमारस्तान् वृद्धाञ्जाम्बवत्प्रमुखान् कपीन्। अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे॥ १२॥ ततश्चानुमताः सर्वे संप्रहृष्टा वनौकसः। मुदिताः प्रेरिताश्चापि प्रनृत्यन्तोऽभवंस्ततः॥ १३॥ गायन्ति केचित् प्रणमन्ति केचि- न्नृत्यन्ति केचित् प्रहसन्ति केचित्। पतन्ति केचिद्विचरन्ति केचित् प्लवन्ति केचित् प्रलपन्ति केचित्॥ १४॥ परस्परं केचिदुपाश्रयन्ते परस्परं केचिदुपाक्रमन्ते। परस्परं केचिदुपब्रुवन्ते परस्परं केचिदुपारमन्ते॥ १५॥ द्रुमाद् द्रुमं केचिदभिद्रवन्ति क्षितौ नगाग्रान्निपतन्ति केचित्। महीतलात् केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसंपतन्ति॥ १६॥ गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति। रुदन्तमन्यः प्रणदन्नुपैति नदन्तमन्यः प्रणुदन्नुपैति॥ १७॥ समाकुलं तत् कपिसैन्यमासीत् मधुप्रपानोत्कटसत्त्वचेष्टम् न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव तृप्तः॥ १८॥ ततो वनं तैः परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान्। समीक्ष्य कोपाद् दधिवक्त्रनामा निवारयामास कपिः कपींस्तान्॥ १९॥ स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः। चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः॥ २०॥ उवाच कांश्चित् परुषाणि धृष्ट मसक्तमन्यांश्च तलैर्जघान। समेत्य कैश्चित् कलहं चकार तथैव साम्नोपजगाम कांश्चित्॥ २१॥ स तैर्मदात् संपरिवार्य वाक्यै- र्बलाञ्च तेन प्रतिवार्यमाणैः। प्रधर्षितस्त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम्॥ २२॥ नखैस्तुदन्तो दशनैर्दशन्त- स्तलैश्च पादैश्च समापयन्तः। मदात् कपिं तं कपयः समग्रा महावनं निर्विषयं च चक्रुः॥ २३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे मधुवनप्रवेशो नाम एकषष्टितमः सर्गः ॥५-६१॥