तानुवाच हरिश्रेष्ठो हनुमान् वानरर्षभः। अव्यग्रमनसो यूयं मधु सेवत वानराः॥ ०१॥ अहमावारयिष्यामि युष्माकं परिपन्थिनः। श्रुत्वा हनूमतो वाक्यं हरीणां प्रवरोऽङ्गदः॥ ०२॥ प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु। अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया॥ ०३॥ अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम्। अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः॥ ०४॥ साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन्। पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम्॥ ०५॥ जग्मुर्मधुवनं यत्र नदीवेगा इव द्रुतम्। ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः॥ ०६॥ अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम्। पपुः सर्वे मधु तदा रसवत्फलमाददुः॥ ०७॥ उत्पत्य च ततः सर्वे वनपालान् समागतान्। ताडयन्ति स्म शतशः सक्तान् मधुवने तदा॥ ०८॥ मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते। पिबन्ति सहिताः सर्वे निध्नन्ति स्म तथापरे॥ ०९॥ केचित् पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः। मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः॥ १०॥ अपरे वृक्षमूले तु शाखां गृह्य व्यवस्थिताः। अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते॥ ११॥ उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत्। क्षिपन्ति च तदान्योन्यं स्खलन्ति च तथापरे॥ १२॥ केचित् क्ष्वेलां प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत्। हरयो मधुना मत्ताः केचित् सुप्ता महीतले॥ १३॥ कृत्वा किञ्चिद्धसन्त्यन्ये केचित् कुर्वन्ति चेतरत्। कृत्वा किंचिद्वदन्त्यन्ये केचिद्बुध्यन्ति चेतरत्॥ १४॥ येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु। तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः॥ १५॥ जानुभिस्तु प्रकृष्टाश्च देवमार्गं च दर्शिताः। अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः॥ १६॥ हनूमता दत्तवरैर्हतं मधुवनं बलात्। वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः॥ १७॥ ततो दधिमुख: क्रुद्धो वनपस्तत्र वानरः। हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन्॥ १८॥ इहागच्छत गच्छामो वानरान् बलदर्पितान्। बलेन वारयिष्यामो मधु भक्षयतो वयम्॥ १९॥ श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः। पुनर्वीरा मधुवनं तेनैव सहिसा ययुः॥ २०॥ मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम्। समभ्यधावद्वेगेन ते च सर्वे प्लवङ्गमाः॥ २१॥ ते शिलाः पादपांश्चापि पर्वतांश्चापि वानराः। गृहीत्वाभ्यगमन् क्रुद्धा यत्र ते कपिकुञ्जराः॥ २२॥ ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत्। त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः॥ २३॥ वृक्षस्थांश्च तलस्थांश्च वानरान् बलदर्पितान्। अभ्यक्रामंस्ततो वीराः पालास्तत्र सहस्रशः॥ २४॥ अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुंगवाः। अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा॥ २५॥ तं सवृक्षं महाबाहुमापतन्तं महाबलम्। आर्यकं प्राहरत् तत्र बाहुभ्यां कुपितोऽङ्गदः॥ २६॥ मदान्धश्च न वेदैनमार्यकोऽयं ममेति सः। अथैनं निष्पिपेषाशु वेगवद्वसुधातले॥ २७॥ स भग्नबाहूरुभुजो विह्वलः शोणितोक्षितः। मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः॥ २८॥ स समाश्वस्य सहसा संक्रुद्धो राजमातुलः। वानरान् वारयामास दण्डेन मधुमोहितान्॥ २९॥ स कथञ्चिद्विमुक्तस्तैर्वानरैर्वानरर्षभः। उवाचैकान्तमाश्रित्य भृत्यान् स्वान् समुपागतान्॥ ३०॥ एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः। सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति॥ ३१॥ सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिवे। अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान्॥ ३२॥ इष्टं मधुवनं ह्येतत् सुग्रीवस्य महात्मनः। पितृपैतामहं दिव्यं देवैरपि दुरासदम्॥ ३३॥ स वानरानिमान् सर्वान् मधुलुब्धान् गतायुषः। घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान्॥ ३४॥ वध्या ह्येते दुरात्मानो नृपाज्ञापरिभाविनः। अमर्षप्रभवो रोषः सफलो नो भविष्यति॥ ३५॥ एवमुक्त्वा दधिमुखो वनपालान् महाबलः। जगाम सहसोत्पत्य वनपालैः समन्वितः॥ ३६॥ निमेषान्तरमात्रेण स हि प्राप्तो वनालयः। सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः॥ ३७॥ रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च। समप्रतिष्ठां जगतीमाकाशान्निपपात ह॥ ३८॥ संनिपत्य महावीर्यः सर्वैस्तै: परिवारितः। हरिर्दधिमुखः पालैः पालानां परमेश्वरः॥ ३९॥ स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम्। सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत्॥ ४०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे दधिमुखखिलीकारो नाम द्विषष्टितमः सर्गः ॥५-६२॥