home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भागवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
सुन्दरकाण्डम्

पञ्चषष्टितमः सर्गः॥५-६५॥

॥चूडामणिप्रदानम्॥

[ हनुमता श्रीरामं प्रति सीतावृत्तान्तस्य निवेदनम् ]

ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम्। प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम्॥ ०१॥ युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च। प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः॥ ०२॥ रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम्। रामे समनुरागं च यश्चायं समयः कृतः॥ ०३॥ एतदाख्यान्ति ते सर्वे हरयो रामसंनिधौ। वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत्॥ ०४॥ क्व सीता वर्तते देवी कथं च मयि वर्तते। एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः॥ ०५॥ रामस्य गदितं श्रुत्वा हरयो रामसंनिधौ। चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम्॥ ०६॥ श्रुत्वा ते वचनं तेषां हनुमान् मारुतात्मजः। प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति॥ ०७॥ उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा। समुद्रं लङ्घयित्वाहं शतयोजनमायतम्॥ ०८॥ अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया। तत्र लङ्केति नगरी रावणस्य दुरात्मनः॥ ०९॥ दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे। तत्र सीता मया दृष्टा रावणान्तः पुरे सती॥ १०॥ सन्न्यस्य त्वयि जीवन्ती रामा राम मनोरथम्। दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः॥ ११॥ राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने। दुःखमापद्यते देवी तवादुःखॊचिता सती॥ १२॥ रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता। एकवेणीधरा दीना त्वयि चिन्तापरायणा॥ १३॥ अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे। रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया॥ १४॥ देवी कथञ्चित् काकुत्स्थ त्वन्मना मार्गिता मया। इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ॥ १५॥ सा मया नरशार्दूल विश्वासमुपपादिता। ततः सम्भाषिता देवी सर्वमर्थं च दर्शिता॥ १६॥ रामसुग्रीवसख्यं च श्रुत्वा प्रीतिभुपागता। नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयि॥ १७॥ एवं मया महाभागा दृष्टा जनकनन्दिनी। उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ॥ १८॥ अभिज्ञानं च मे दत्तं यथावृत्तं तवान्तिके। चित्रकूटे महाप्राज्ञ वायसं प्रति राघव॥ १९॥ विज्ञाप्यश्च नरव्याध्रो रामो वायुसुत त्वया। अखिलेनेह यद्दृष्टमिति मामाह जानकी॥ २०॥ अयं चास्मै प्रदातव्यो यत्‌नात् सुपरिरक्षितः। ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः॥ २१॥ एष चूडामणिः श्रीमान्मया सुपरिरक्षितः । मनः शिलायास्तिलको गण्डपार्श्वे निवेशितः॥ २२॥ त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि एष निर्यातितः श्रीमान् मया ते वारिसम्भवः॥ २३॥ एवं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ। जीवितं धारयिष्यामि मासं दशरथात्मज॥ २४॥ ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता। इति मामब्रवीत् सीता कृशाङ्गी वरवर्णिनी॥ २५॥ रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना। एतदेव मयाख्यातं सर्वं राघव यद्यथा॥ २६॥ सर्वथा सागरजले सन्तारः प्रविधीयताम्। तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय। देव्या चाख्यातं सर्वमेवानुपूर्व्याद् वाचा सम्पूर्णं वायुपुत्त्रः शशंस॥ २७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे चुडामणिप्रदानं नाम पञ्चषष्टितमः सर्गः ॥५-६५॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध