home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भागवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
सुन्दरकाण्डम्

षट्षष्टितमः सर्गः॥५-६६॥

॥सीताभाषितप्रश्नः॥

[ चूडामणिं दृष्ट्वा सीतावृत्तमुपलभ्य च श्रीरामस्य सीताकृते विलापः ]

एवमुक्तो हनुमता रामो दशरथात्मजः। तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः ॥ ०१॥ तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः। नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ॥ ०२॥ यथैव धेनुः स्रवति स्नेहाद्वत्सस्य वत्सला। तथा ममापि हृदयं मणिरत्‌नस्य दर्शनात् ॥ ०३॥ मणिरत्‌नमिदं दत्तं वैदेह्याः श्वशुरेण मे। वधूकाले यथाबद्धमधिकं मूर्ध्नि शोभते ॥ ०४॥ अयं हि जलसम्भूतो मणिः सज्जनपूजितः। यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता ॥ ०५॥ इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम् । अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः ॥ ०६॥ अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः। अस्यास्य दर्शनेनाहं प्राप्तां तामिव चिन्तये ॥ ०७॥ किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः। पिपासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा ॥ ०८॥ इतस्तु किं दुःखतरं यदिमं वारिसंभवम् । मणिं पश्यामि सौमित्रे वैदेहीमागतं विना ॥ ०९॥ चिरं जीवति वैदेही यदि मासं धरिष्यति । न जीवेयं क्षणमपि विना तामसितेक्षणाम् ॥ १०॥ नय मामपि तं देशं यत्र दृष्टा मम प्रिया। न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च ॥ ११॥ कथं सा मम सुश्रोणि भीरुभीरुः सती सदा। भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् ॥ १२॥ शारदस्तिमिरोन्मुक्तो नूनं चन्द्र इवाम्बुदैः। आवृतं वदनं तस्या न विराजति राक्षसैः ॥ १३॥ किमाह सीता हनुमंस्तत्त्वतः कथयाद्य मे। एतेन खलु जीविष्ये भेषजेनातुरो यथा ॥ १४॥ मधुरा मधुरालापा किमाह मम भामिनी। मद्विहीना वरारोहा हनुमन् कथयस्व मे ॥ १५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे सीताभाषितप्रश्नो नाम षट्षष्टितमः सर्गः ॥५-६६॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध