home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

द्वादशोत्तरशततमः सर्गः ॥६-११२॥

॥विचीषणविलापः॥

[ विभीषणस्य विलापः श्रीरामेण तस्य प्रबोधन- पूर्वकं रावणान्त्येष्टिसंस्कारार्थं तं प्रत्यादेशदानम् ]

भ्रातरं निहतं दृष्ट्वा शयानं निर्जितम्। शोकवेगपरीतात्मा विललाप विभीषणः॥ १॥ वीर विक्रान्त विख्यात विनीत नयकोविद। महार्हशयनोपेत किं शेषेऽद्य हतो भुवि॥ २॥ निक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ। मुकुटेनापवृत्तेन भास्कराकारवर्चसा॥ ३॥ तदिदं वीर सम्प्राप्तं मया पूर्वं समीरितम्। काममोहपरीतस्य यत्ते न रुचितं वचः॥ ४॥ यन्न दर्पात् प्रहस्तो वा नेन्द्रजिन्नापरे जनाः। न कुम्भकर्णोऽतिरथो नातिकायो नरान्तकः॥ ५॥ न स्वयं त्वममन्येथास्तस्योदर्कोऽयमागतः। गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः॥ ६॥ गतः सत्त्वस्य संक्षेपः प्रस्तावानां गतिर्गता। आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः॥ ७॥ चित्रभानुः प्रशान्तार्चिर्व्यवसायो निरुद्यमः। अस्मिन् निपतिते भूमौ वीरे शस्त्रभृतां वरे॥ ८॥ किं शेषमिव लोकस्य हतवीरस्य सम्प्रति। रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु॥ ९॥ धृतिप्रवालः प्रसभाग्र्यपुष्प- स्तपोबलः शौर्यनिबद्धमूलः। रणे महान् राक्षसराजवृक्षः सम्मर्दितो राघवमारुतेन॥ १०॥ तेजोविषाणः कुलवंशवंशः कोपप्रसादापरगात्रहस्तः। इक्ष्वाकुसिंहावगृहीतदेहः सुप्तः क्षितौ रावणगन्धहस्ती॥ ११॥ पराक्रमोत्साहविजृम्भितार्चि- र्निश्वासधूमः स्वबलप्रतापः। प्रतापवान् संयति राक्षसाग्नि- र्निर्वापितो रामपयोधरेण॥ १२॥ सिंहर्क्षलाङ्गूलककुद्विषाणः पराभिजिद‍्गन्धनगन्धहस्ती। रक्षोवृषश्चापलकर्णचक्षुः क्षितीश्वरव्याघ्रहतोऽवसन्नः॥ १३॥ वदन्तं हेतुमद्वाक्यं परिमृष्टार्थनिश्चयम्। रामः शोकसमाविष्टमित्युवाच विभीषणम्॥ १४॥ नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः। अत्युन्नतमहोत्साहः पतितोऽयमशङ्कितः॥ १५॥ नैवं विनष्टाः शोच्यन्ते क्षत्त्रधर्ममवस्थिताः। वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे॥ १६॥ येन सेन्द्रास्त्रयो लोकास्त्रासिता युधि धीमता। तस्मिन् कालसमायुक्ते न कालः परिशोचितुम्॥ १७॥ नैकान्तविजयो युद्धे भूतपूर्वः कदाचन। परैर्वा हन्यते वीरः परान् वा हन्ति संयुगे॥ १८॥ इयं हि पूर्वैः संदिष्टा गतिः क्षत्त्रियसम्मता। क्षत्त्रियो निहतः संख्ये न शोच्य इति निश्चयः॥ १९॥ तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः। यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय॥ २०॥ तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः। उवाच शोकसंतप्तो भ्रातुर्हितमनन्तरम्॥ २१॥ योऽयं विमर्देषु न भग्नपूर्वः सुरैः समेतैः सह वासवेन। भवन्तमासाद्य रणे विभग्नो वेलामिवासाद्य यथा समुद्रः॥ २२॥ अनेन दत्तानि सुपूजितानि भुक्ताश्च भोगा निभृताश्च भृत्याः। धनानि मित्रेषु समर्पितानि वैराण्यमित्रेषु च यापितानि॥ २३॥ एषोहिताग्निश्च महातपाश्च वेदान्तगः कर्मसु चाग्र्यवीर्यः। एतस्य यत् प्रेतगतस्य कृत्यं तत् कर्तुमिच्छामि तव प्रसादात्॥ २४॥ स तस्य वाक्यैः करुणैर्महात्मा सम्बोधितः साधु विभीषणेन। आज्ञापयामास नरेन्द्रसूनुः स्वर्गीयमाधानमदीनसत्त्वः॥ २५॥ मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्। क्रियतामस्य संस्कारो ममाप्येष यथा तव॥ २६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे विभीषणविलापो नाम द्वादशोत्तरशततमः सर्गः ॥६-११२॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध