रावणं निहतं श्रुत्वा राघवेण महात्मना। अन्तःपुराद् विनिष्पेतू राक्षस्यः शोककर्शिताः॥ १॥ वार्यमाणाः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु। विमुक्तकेश्यो दुःखार्ता गावो वत्सहता इव॥ २॥ उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः। प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम्॥ ३॥ आर्यपुत्रेतिवादिन्यो हा नाथेति च सर्वशः। परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम्॥ ४॥ ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः। करेण्व इव नर्दन्त्यः विनेदुर्हतयूथपाः॥ ५॥ ददृशुस्तं महावीर्यं महाकायं महाद्युतिम्। रावणं निहतं भूमौ नीलाञ्जनचयोपमम्॥ ६॥ ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु। निपेतुस्तस्य गात्रेषु च्छिन्ना वनलता इव॥ ७॥ बहुमानात् परिष्वज्य काचिदेनं रुरोद ह। चरणौ काचिदालिङ्ग्य काचित् कण्ठेऽवलम्ब्य च॥ ८॥ उद्धृत्य च भुजौ काचिद् भूमौ स्म परिवर्तते। हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत्॥ ९॥ काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती। स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम्॥ १०॥ एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि। चुक्रुशुर्बहुधा शोकाद् भूयस्ताः पर्यदेवयन्॥ ११॥ येन वित्रासितः शक्रो येन वित्रासितो यमः। येन वैश्रवणो राजा पुष्पकेण वियोजितः॥ १२॥ गन्धर्वाणामृषीणां च सुराणां च महात्मनाम्। भयं येन महद्दत्तं सोऽयं शेते रणे हतः॥ १३॥ असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा। न भयं यो विजानाति तस्येदं मानुषाद् भयम्॥ १४॥ अवध्यो देवतानां यस्तथा दानवरक्षसाम्। हतः सोऽयं रणे शेते मानुषेण पदातिना॥ १५॥ यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा। सोऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः॥ १६॥ एवं वदन्त्यो बहुधा रुरुदुस्तस्य ताः स्त्रियः। भूय एव च दुःखार्ता विलेपुश्च पुनः पुनः॥ १७॥ अशृण्वता च सुहृदां सततं हितवादिनाम्। मरणायाहृता सीता घातिताश्च निशाचराः। एताः सममिदानीं ते वयमात्मा च पातिताः॥ १८॥ ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणः। दृष्टं परुषितो मोहात् त्वयात्मवधकाङ्क्षिणा॥ १९॥ यदि निर्यातिता ते स्यात्सीता रामाय मैथिली। न नः स्याद्व्यसनं घोरमिदं मूलहरं महत्॥ २०॥ वृत्तकामो भवेद् भ्राता रामो मित्रकुलं भवेत्। वयं चाविधवाः सर्वाः सकामा न च शत्रवः॥ २१॥ त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात्। राक्षसा वयमात्मा च त्रयं तुल्यं निपातितम्॥ २२॥ न कामकारः कामं वा तव राक्षसपुङ्गव। दैवं चेष्टयते सर्वं हतं दैवेन हन्यते॥ २३॥ वानराणां विनाशोऽयं राक्षसां च महाहवे। तव चैव महाबाहो दैवयोगादुपागतः॥ २४॥ नैवार्थेन च कामेन विक्रमेण न चाज्ञया। शक्या दैवगतिर्लोके निवर्तयितुमुद्यता॥ २५॥ विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः। कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः॥ २६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे रवणान्तः पुरपरिदेवनं नाम त्रयोदशोत्तरशततमः सर्गः ॥६-११३॥