अयोध्यां तु समालोक्य चिन्तयामास राघवः। चिन्तयित्वा हनूमन्तमुवाच प्लवगोत्तमम् ॥ १॥ जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे। शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम्॥ २॥ निषादाधिपतिं ब्रूहि कुशलं वचनान्मम। श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम्॥ ३॥ भविष्यति गुहः प्रीतः स ममात्मसमः सखा। अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च॥ ४॥ निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः। भरतस्तु त्वया वाच्यः कुशलं वचनान्मम॥ ५॥ सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम्। हरणं चापि वैदेह्या रावणेन बलीयसा॥ ६॥ सुग्रीवेण च संसएगं वालिनश्च वधं रणे। मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया॥ ७॥ लङ्घयित्वा महातोयमापगापतिमव्ययम्। उपयानं समुद्रस्य सागरस्य च दर्शनम्॥ ८॥ यथा च कारितः सेतू रावणश्च यथा हतः। वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च॥ ९॥ महादेवप्रसादाच्च पित्रा मम समागमम्। उपयातं च मां सौम्य भरताय निवेदय॥ १०॥ सह राक्षसराजेन हरीणां प्रवरेण च। जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः॥ ११॥ उपायाति समृद्धार्थः सह मित्रैर्महाबलैः। एतच्छ्रुत्वा यमाकारं भजते भरतस्तदा॥ १२॥ स च ते वेदितव्यः स्यात् सर्वं यच्चापि मां प्रति। ज्ञेयाश्च सर्वे च वृत्तान्ता भरतस्येङ्गितानि च॥ १३॥ तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषितेन च। सर्वकामसमृद्धं हि हस्त्यश्वरथसंकुलम्॥ १४॥ पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः। संगत्या भरतः श्रीमान् राज्यार्थी चेत् स्वयं भवेत्॥ १५॥ प्रशास्तु वसुधां कृत्स्नामखिलां रघुनन्दनः। तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर॥ १६॥ यावन्न दूरं याताः स्मः क्षिप्रमागन्तुमर्हसि। इति प्रतिसमादिष्टो हनूमान् मारुतात्मजः॥ १७॥ मानुषं धारयन् रूपमयोध्यां त्वरितो ययौ। अथोत्पपात वेगेन हनूमान् मारुतात्मजः॥ १८॥ गरुत्मानिव वेगेन जिघृक्षन् भुजगोत्तमम्। लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम्॥ १९॥ गङ्गायमुनयोर्मध्यं सन्निपातमतीत्य च। शृङ्गवेरपुरं प्राप्य गुहमासाद्य वीर्यवान्॥ २०॥ स वाचा शुभया हृष्टो हनुमानिदमब्रवीत्। सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः॥ २१॥ सहसीतः ससौमित्रिः स त्वां कुशलमब्रवीत्। पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः॥ २२॥ भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम्। एवमुक्त्वा महातेजा सम्प्रहृष्टतनूरुहः॥ २३॥ उत्पपात महावेगो वेगवानविचारयन्। सोऽपश्यद् रामतीर्थं च नदीं वालुकिनीं तथा॥ २४॥ गोमतीं तां च सोऽपश्यद्भीमं शालवनं तथा। प्रजाश्च बहुसाहस्राः स्फीताञ्जनपदानपि॥ २५॥ स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः। आससाद द्रुमान् फुल्लान् नन्दिग्रामसमीपगान्॥ २६॥ स्त्रीभिः सपुत्रैर्वृद्धैश्च रममाणैरललङ्तान्। सुराधिपस्योपवने यथा चैत्ररथे द्रुमान्॥ २७॥ क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम्। ददर्श भरतं दीनं कृशमाश्रमवासिनम्॥ २८॥ जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम्। फलमूलाशिनं दान्तं तापसं धर्मचारिणम्॥ २९॥ समुन्नतजटाभारं वल्कलाजिनवाससम्। नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम्॥ ३०॥ पादुके ते पुरस्कृत्य शासन्तं वै वसुन्धराम्। चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात्॥ ३१॥ उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः। बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः॥ ३२॥ न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम्। परिमोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलाः॥ ३३॥ तं धर्ममिव धर्मज्ञं देहबन्तमिवापरम्। उवाच प्राञ्जलिर्वाक्यं हनूमान् मारुतात्मजः॥ ३४॥ वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम्। अनुशोचसि काकुत्स्थं स त्वां कुशलमब्रवीत्॥ ३५॥ प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम्। अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः॥ ३६॥ निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम्। उपयाति समृद्धार्थः सह मित्रैर्महाबलैः॥ ३७॥ लक्ष्मणश्च महातेजा वैदेही च यशस्विनी। सीता समग्रा रामेण महेन्द्रेण यथा शची॥ ३८॥ एवमुक्तो हनुमता भरति भ्रातृवत्सलः। पपात सहसा हृष्टो हर्षान्मोहं जगाम ह॥ ३९॥ ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः। हनुमन्तमुवाचेदं भरतः प्रियवादिनम्॥ ४०॥ अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य सम्भ्रमात्। सिषेच भरतः श्रीमान् विपुलैरस्त्रबिन्दुभिः॥ ४१॥ देवो वा मानुषो वा त्वमनुक्रोशादिहागतः। प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम्॥ ४२॥ गवां शतसहस्रं च ग्रामाणां च शतं परम्। सकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश॥ ४३॥ हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः। सर्वाभरणसम्पन्नाः सम्पन्नाः कुलजातिभिः॥ ४४॥ निशम्य रामागमनं नृपात्मजः कपिप्रवीरस्य तदाद्भुतोपमम्। प्रहर्षितो रामदिदृक्षयाभवत् पुनश्च हर्षादिदमब्रवीद् वचः॥ ४५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे भरतप्रियाख्यानं नाम अष्टाविंशत्युत्तरशततमः सर्गः ॥६-१२८॥