home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

सप्तविंशत्युत्तरशततमः सर्गः ॥६-१२७॥

॥भरद्वाजामन्त्रणम्॥

[ भरद्वाजाश्रमेऽवतीर्य श्रीरामेण महर्षेर्दर्शनं ततो वरग्रहणं च ]

पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः। भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम्॥ १॥ सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम्। शृणोषि कच्चिद् भगवन् सुभिक्षानामयं पुरे॥ २॥ कच्चित् स युक्तो भरतो जीवन्त्यपि च मातरः एवमुक्तस्तु रामेण भरद्वाजो महामुनिः॥ ३॥ प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत्। पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षते॥ ४॥ पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे। त्वां पुरा चीरवसनं प्रविशन्तं महावनम्॥ ५॥ स्त्रीतृतीयं च्युतं राज्याद् धर्मकामं च केवलम्। पदातिं त्यक्तसर्वस्वं पितुर्वचनकारिणम्॥ ६॥ सर्वभोगैः परित्यक्तं स्वर्गच्युतमिवामरम्। दृष्ट्वा तु करुणा पूर्वं ममासीत् समितिंजय॥ ७॥ कैकेयीवचने युक्तं वन्यमूलफलाशिनम्। साम्प्रतं ससमृद्धार्थं समित्रगणबान्धवम्॥ ८॥ समीक्ष्य विजितारिं त्वां मम प्रीतिरुत्तमा। सर्वं च सुखदुःखं ते विदितं मम राघव॥ ९॥ यत्त्वया विपुलं प्राप्तं जनस्थानवधादिकम्। ब्राह्मणार्थे नियुक्तस्य रक्षितुं सर्वतापसान्॥ १०॥ रावणेन हृता भार्या बभूवेयमनिन्दिता। मारीचदर्शनं चैव सीतोन्मथनमेव च॥ ११॥ कबन्धदर्शनं चैव पम्पाभिगमनं तथा। सुग्रीवेण च ते सख्यं यच्च वाली हतस्त्वया॥ १२॥ मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च। विदितायां च वैदेह्यां नलसेतुर्यथा कृतः॥ १३॥ यथा वा दीपिता लङ्का प्रहृष्टैर्हरियूथपैः। सपुत्रबान्धवामात्यः सबलः सहवाहनः॥ १४॥ यथा विनिहतः संख्ये रावणो देवकण्टकः। समागमश्च त्रिदशैर्यथा दत्तश्च ते वरः॥ १५॥ सर्वं ममैतद् विदितं तपसा धर्मवत्सल। अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर॥ १६॥ अर्घ्यमद्य गृहाणेदमयोध्यां श्वो गमिष्यसि। तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः॥ १७॥ बाढमित्येव संहृष्टो धीमान् वरमयाचत। अकाले फलिनो वृक्षाः सर्वे चापि मधुस्रवाः॥ १८॥ फलान्यमृतकल्पानी बहूनि विविधानि च। भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः॥ १९॥ तथेति च प्रतिज्ञाते वचनात् समनन्तरम्। अभवन् पादपास्तत्र स्वर्गपादपसन्निभाः॥ २०॥ निष्फलाः फलिनश्चासन् विपुष्पाः पुष्पशालिनः। शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः। सर्वतो योजनास्तिस्रो गच्छतामभवंस्तदा॥ २१॥ ततः प्रहृष्टाः प्लवगर्षभास्ते बहूनि दिव्यानि फलानि चैव। कामादुपाश्नन्ति सहस्रशस्ते मुदान्विताः स्वर्गजितो यथैव॥ २२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे भरद्वाजामन्त्रणं नाम सप्तविंशत्युत्तरशततमः सर्गः ॥६-१२७॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध