home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

षड्विंशत्युत्तरशततमः सर्गः ॥६-१२६॥

॥प्रत्यावृत्तिपथवर्णनम्॥

[ अयोध्यां गच्छन् श्रीरामो सीतां मार्गस्थानान्य- दर्शयत् ]

अनुज्ञातं तु रामेण तद् विमानमनुत्तमम्। उत्पपात महामेघः श्वसनेनोद्धतो यथा। १॥ पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः। अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम्॥ २॥ कैलासशिखराकारे त्रिकूटशिखरे स्थिताम्। लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा॥ ३॥ एतदायोधनं पश्य मांसशोणितकर्दमम्। हरीणां राक्षसानां च सीते विशसनं महत्॥ ४॥ अत्र दत्तवरः शेते प्रमाथी राक्षसेश्वरः। तव हेतोर्विशालाक्षि रावणो निहतो मया॥ ५॥ कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः। धूम्राक्षश्चात्र निहतो वानरेण हनूमता॥ ६॥ विद्युन्माली हतश्चात्र सुषेणेन महात्मना। लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे॥ ७॥ अङ्गदेनात्र निहतो विकटो नाम राक्षसः। विरूपाक्षश्च दुर्धर्षो महापार्श्वमहोदरौ॥ ८॥ अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः। अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत्॥ ९॥ सपत्नीनां सहस्रेण साग्रेण परिवारिता। एतत् तु दृश्यते तीर्थं समुद्रस्य वरानने॥ १०॥ यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम्। एष सेतुर्मया बद्धः सागरे लवणार्णवे॥ ११॥ तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः। पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम्॥ १२॥ अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम्। हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि॥ १३॥ विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम्। एतत् कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम्॥ १४॥ एतत् तु दृश्यते तीर्थं सागरस्य महात्मनः। सेतुबन्ध इति ख्यातं त्रैलोक्येनाभिपूजितम्॥ १५॥ एतत् पवित्रं परमं महापातकनाशनम्। अत्र पूर्वं महादेवः प्रसादमकरोद् प्रभुः॥ १६॥ अत्र राक्षसराजोऽयमाजगाम विभीषणः। एषा सा दृश्यते सीते किष्किन्धा चित्रकानना॥ १७॥ सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः। अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम्॥ १८॥ अब्रवीत् प्रश्रितं वाक्यं रामं प्रणयसाध्वसा। सुग्रीवप्रियभार्याभिस्ताराप्रमुखतो नृप॥ १९॥ अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम्। गन्तुमिच्छे सहायोध्यां राजधानीं त्वयानघ॥ २०॥ एवमुक्तोऽथ वैदेह्या राघवः प्रत्युवाच ताम्। एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः॥ २१॥ विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह। ब्रूहि वानरशार्दूल सर्वान् वानरपुङ्गवान्॥ २२॥ स्वदारसहिताः सर्वे ह्ययोध्यां यान्तु सीतया। तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल॥ २३॥ अभित्वरय सुग्रीव गच्छामः प्लवगेश्वर। एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा॥ २४॥ वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः। प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य सोऽब्रवीत्॥ २५॥ प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम्। राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया॥ २६॥ त्वर त्वमभिगच्छामो गृह्य वानरयोषितः। अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः॥ २७॥ सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना। आहूय चाब्रवीत् सर्वा वानराणां तु योषितः॥ २८॥ सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः। मम चापि प्रियं कार्यमयोध्यादर्शनेन च॥ २९॥ प्रवेशं चापि रामस्य पौरजानपदैः सह। विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च॥ ३०॥ तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः। नेपथ्यं विधिपूर्वेण कृत्वा चापि प्रदक्षिणम्॥ ३१॥ अध्यारोहन् विमानं तत् सीतादर्शनकाङ्क्षया। ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः॥ ३२॥ ऋष्यमूकसमीपे तु वैदेहीं पुनरब्रवीत्। दृश्यतेऽसौ महान् सीते सविद्युदिव तोयदः॥ ३३॥ ऋष्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः। अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः॥ ३४॥ समयश्च कृतः सीते वधार्थं वालिनो मया। एषा सा दृश्यते पम्पा नलिनी चित्रकानना॥ ३५॥ त्वया विहीनो यत्राहं विललाप सुदुःखितः। अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी॥ ३६॥ अत्र योजनबाहुश्च कबन्धो निहतो मया। दृश्यते च जनस्थाने सीते श्रीमान् वनस्पतिः॥ ३७॥ यत्र युद्धं महद्वृत्तं तव हेतोर्विलासिनि। रावणस्य नृशंसस्य जटायोश्च महात्मनः॥ ३८॥ खरश्च निहतो यत्र दूषणश्च निपातितः। त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः॥ ३९॥ एतत्तदाश्रमपदमस्माकं वरवर्णिनि। पर्णशाला तथा चित्रा दृश्यते शुभदर्शने॥ ४०॥ यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात्। एषा गोदावरी रम्या प्रसन्नसलिला डिवा॥ ४१॥ अगस्त्यस्याश्रमो ह्योष दृश्यते पश्य मैथिलि। दीप्तश्चैवाश्रमे ह्येष सुतीक्ष्णस्य महात्मनः॥ ४२॥ वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान्। उपयातः सहस्राक्षो यत्र शक्रः पुरन्दरः॥ ४३॥ अस्मिन् देशे महाकायो विराधो निहतो मया। एते ते तापसावासा दृश्यन्ते तनुमध्यमे॥ ४४॥ अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरप्रभः। अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी॥ ४५॥ असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते। यत्र मां कैकयीपुत्रः प्रसादयितुमागतः॥ ४६॥ एषा सा यमुना दूराद्दृश्यते चित्रकानना। भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते॥ ४७॥ एशा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि। नानाद्विजगणाकीर्णा सम्प्रपुष्पितकानना॥ ४८॥ शृङ्गवेरपुरं चैतद् गुहो यत्र समागतः। एषा सा दृश्यते सीते सरयूर्यूपमालिनी॥ ४९॥ नानातरुशताकीर्णा सम्प्रपुष्पितकानना। एषा सा दृश्यतेऽयोद्ग्या राजधानी पितुर्मम॥ ५०॥ अयोध्यां कुरु वैदेहि प्रणामं पुनरागता। ततस्ते वानराः सर्वे राक्षसश्च विभीषणः। उत्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शनाम्॥ ५१॥ ततस्तु तां पाण्डरहर्म्यमालिनीं विशालकक्ष्यां गजवाजिसंकुलाम्। पुरीमयोध्यां ददृशुः प्लवङ्गमाः पुरीं महेन्द्रस्य यथामरावतीम्॥ ५७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे प्रत्यावृत्तिपथवर्णनं नाम षड्विंशत्युत्तरशततमः सर्गः ॥६-१२६॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध