home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

पञ्चविंशत्युत्तरशततमः सर्गः ॥६-१२५॥

॥पुष्यकोत्पतनम्॥

[श्रीरामस्याज्ञया विभीषणेन वानराणां भृशं सत्कारो विभीषणं वानरांश्च सहैवादाय श्रीरामस्य पुष्पकेणायोध्यां प्रति प्रस्थानं च ]

उपस्थितं तु तं ड्रुष्ट्वा पुष्पकं पुष्पभूषितम्। अविदूरस्थितो रामं प्रत्युवाच विभीषणः॥ १॥ स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः। अब्रवीत्त्वरयोपेतः किं करोमीति राघवम्॥ २॥ तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः। विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम्॥ ३॥ कृतप्रयत्नकर्माणो विभीषण वनौकसः। रत्नैरर्थैश्च विविधैर्भूषणैश्चापि पूजय॥ ४॥ सहैभिरजिता लङ्का निर्जिता राक्षसेश्वर। हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्वनिवर्तिभिः॥ ५॥ त इमे कृतकर्माणः पूज्यन्तां सर्वानराः। धनरत्नप्रदानेन कर्मैषां सफलं कुरु॥ ६॥ एवं सम्मानिताश्चैते मानार्हा मानद त्वया। भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः॥ ७॥ त्यागिनं संग्रहीतारं सानुक्रोशं यशस्विनम्। सर्वे त्वामवगच्छन्ति ततः सम्बोधयाम्यहम्॥ ८॥ हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे। त्यजति नृपतिं सेना संविग्नास्तं नरेश्वरम्॥ ९॥ एवमुक्तस्तु रामेण वानरांस्तान् विभीषणः। रत्नार्थैः संविभागेन सर्वानेवाभ्यपूजयत्॥ १०॥ ततस्तान् पूजितान् दृष्ट्वा रत्नैरर्थैश्च यूथपान्। आरुरोह ततो रामस्तद् विमानमनुत्तमम्॥ ११॥ अङ्केनादाय वैदेहीं लज्जमानां मनस्विनीम्। लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता॥ १२॥ अब्रवीच्च विमानस्थः पूजयन् सर्ववानरान्। सुग्रीवं च महावीर्यं काकुत्स्थः सविभीषणम्॥ १३॥ मित्रकार्यं कृतमिदं भवद्भिर्वानरोत्तमाः। अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छथ॥ १४॥ यत् तु कार्यं वयस्येन सुहृता वा परन्तप। कृतं सुग्रीव तत् सर्वं भवता धर्मभीरुणा॥ १५॥ किष्किन्धां प्रति याह्याशु स्वसैन्येनाभिसंवृतः। स्वराज्ये वस लङ्कायां मया दत्ते विभीषण॥ १६॥ न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः। अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम॥ १७॥ अभ्यनुज्ञातुमिच्छामि सर्वांश्चामन्त्रयामि वः। एवमुक्तास्तु रामेण वानरास्ते महाबलाः॥ १८॥ ऊचुः प्राञ्जलयो रामं राक्षसश्च विभीषणः। अयोध्यां गन्तुमिच्छामः सर्वान् नयतु नो भवान्॥ १९॥ उद्युक्ता विचरिष्यामो वनानि नगराणि च। दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च॥ २०॥ अचिरेणागमिष्यामः स्वन् गृहान्नृपतेः सुत। एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः॥ २१॥ अब्रवीद्राघवः श्रीमान् ससुग्रीवविभीषणान्। प्रियात् प्रियतरं लब्धं यदहं ससुहृज्जनः॥ २२॥ सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः। क्षिप्रमारोह सुग्रीव विमानं वानरैः सह॥ २३॥ त्वमध्यारोह सामात्यो राक्षसेन्द्र विभीषण। ततस्तत् पुष्पकं दिव्यं सुग्रीवः सह सेनया॥ २४॥ अध्यारोहत्त्वरञ्शीघ्रं सामात्यश्च विभीषणः। तेष्वारूढेषु सर्वेषु कौबेरं परमासनम्॥ २५॥ राघवेणाभ्यनुज्ञातमुत्पपात विहायसम्। ययै तेन विमानेन हंसयुक्तेन भास्वता॥ २६॥ प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् ते सर्वे वानरा हृष्ता राक्षसाश्च महाबलाः। यथासुखमसम्बाधं दिव्ये तस्मिन्नुपाविशन्॥ २७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे पुष्पकोत्पतनं नाम पञ्चविंशत्युत्तरशततमः सर्गः ॥६-१२५॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध