home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

चतुर्विंशत्युत्तरशततमः सर्गः ॥६-१२४॥

॥पुष्पकोपस्थापनम्॥

[ श्रीरामस्यायोध्यायां गन्तुमुद्यमनं तदाज्ञया विभीषणेन पुष्पकस्यानयनं च ]

तां रात्रिमुषितं रामं सुखोदितमरिन्दमम्। अब्रवीत् प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः॥ १॥ स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च। चन्दनानि च दिव्यानि माल्यानि विविधानि च॥ २॥ अलङ्कारविदश्चैता नार्यः पद्मनिभेक्षणाः। उपस्थितास्त्वां विधिवत् स्नापयिष्यन्ति राघव॥ ३॥ प्रतिगृह्णीष्व तत् सर्वं मदनुग्रहकाम्यया। एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम्॥ ४॥ हरीन् सुग्रीवमुख्यांस्त्वं स्नानेनाभिनिमन्त्रय। स तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः॥ ५॥ सुकुमारो महाबाहुः कुमारः सत्यसंश्रवः। तं विना कैकयीपुत्रं भरतं धर्मचारिणम्॥ ६॥ न मे स्नानं बहुमतं वस्त्राण्याभरणानि च। इत एव यथा क्षिप्रं प्रतिगच्छामि तां पुरीम्॥ ७॥ अयोध्यां गच्छतो ह्येष पन्थाः परमदुर्गमः। एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः॥ ८॥ अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज। पुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम्॥ ९॥ मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात्। हृतं निर्जित्य संग्रामे कामगं दिव्यमुत्तमम्॥ १०॥ त्वदर्थं पालितं चैतत्तिष्ठत्यतुलविक्रम। तदिदं मेघसंकाशं विमानमिह तिष्ठति॥ ११॥ तेन यास्यसि यानेन त्वमयोध्यां गतज्वरः। अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान्॥ १२॥ वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम्। लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया॥ १३॥ अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि। प्रीतियुक्तस्य मे राम ससैन्यः ससुहृद‍्गणः॥ १४॥ सत्क्रियां विहितां तावद् गृहाण त्वं मयोद्यताम्। प्रणयाद् बहुमानाच्च सौहार्देन च राघव॥ १५॥ प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते। एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम्॥ १६॥ रक्षसां वानराणां च सर्वेषां चोपशृण्वताम्। पूजितोऽस्मि त्वया सौम्य साचिव्येन परन्तप॥ १७॥ सर्वात्मना च चेष्टाभिः सौहृदेनोमेन च। न खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर॥ १८॥ तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः। मां निवर्तयितुं योऽसौ चित्रकूटमुपागतः॥ १९॥ शिरसा याचतो यस्य वचनं न कृतं मया। कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम्॥ २०॥ गुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह। उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर॥ २१॥ कृतकार्यस्य मे वासः कथं स्यादिह संमतः। अनुजानीहि मां सौम्य पूजितोस्मि विभीषण॥ २२॥ मन्युर्न खलु कर्तव्यस्त्वरितं त्वानुमानये। राघवस्य वचः श्रुत्वा राक्षसेन्द्रो विभीषणः॥ २३॥ तद्विमानं समादाय तूर्णं प्रतिनिवर्तत। ततः काञ्चनचित्राङ्गं वैदूर्यमयवेदिकम्॥ २४॥ कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम्। पाण्डराभिः पताकाभिर्ध्वजैश्च समलङ्कृतम्॥ २५॥ शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम्। प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षितम्। घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम्॥ २६॥ यन्मेरुशिखराकारं निर्मितं विश्वकर्मणा। बहुभिर्भूषितं हर्म्यैर्मुक्तारजतसंनिभैः। तलैः स्फटिकचित्राङ्गैर्वैदूर्यैश्च वरासनैः॥ २८॥ महार्हास्तरणोपेतैरुपपन्नं महाधनैः॥ २८॥ उपस्थितमनाधृष्यं तद् विमानं मनोजवम्। निवेदयित्वा रामाय तस्थौ तत्र विभीषणः॥ २९॥ तत् पुष्पकं कामगमं विमान- मुपस्थितं भूधरसंनिकाशम्। दृष्ट्वा तदा विस्मयमाजगाम रामः ससौमित्रिरुदारसत्त्वः॥ ३०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे पुष्पकोपस्थापनं नाम चतुर्विंशत्युत्तरशततमः सर्गः ॥६-१२४॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध