प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः। अब्रवीत् परमप्रीतो राघवं प्राञ्जलिं स्थितम्॥ १॥ अमोघं दर्शनं राम तवास्माकं परन्तप। प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेच्छसि॥ २॥ एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः। लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया॥ ३॥ यदि प्रीतिः समुत्पन्ना मयि सर्वसुरेश्वर। वक्ष्यामि कुरु ते सत्यं वचनं वदतां वर॥ ४॥ मम हेतोः पराक्रान्ता ये गता यमसादनम्। ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः॥ ५॥ मत्कृते विप्रयुक्ता ये पुत्रैर्दारैश्च वानराः। मत्प्रियेष्वभिरक्ताश्च न मृत्युं गणयन्ति च॥ ६॥ त्वत्प्रसादात् समेयुस्ते वरमेतमहं वृणे। नीरुजो निर्व्रणांश्चैव सम्पन्नबलपौरुषान्॥ ७॥ गोलाङ्गूलांस्तथैवर्क्षान् द्रष्टुमिच्छामि मानद। अकाले चापि पुष्पाणि मूलानि च फलानि च॥ ८॥ नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः। श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः॥ ९॥ महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम्। महानयं वरस्तात त्वयोक्तो रघूत्तम॥ १०॥ द्विर्मया नोक्तपूर्वं हि तस्मादेतद् भविष्यति। समुत्थास्यन्ति हरयो ये हता युधि राक्षसैः॥ ११॥ ऋक्षाश्च सहगोपुच्छा निकृत्ताननबाहवः। नीरुजो निर्व्रणाश्चैव सम्पन्नबलपौरुषाः॥ १२॥ समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा। सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनैरपि॥ १३॥ सर्व एव समेष्यन्ति संयुक्ताः परया मुदा। अकाले पुष्पशबलाः फलवन्तश्च पादपाः॥ १४॥ भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः। सव्रणैः प्रथमं गात्रैः संवृत्तैर्निर्व्रणैः पुनः॥ १५॥ ततः समुत्थिताः सर्वे सुप्त्वेव हरिपुङ्गवाः। बभूवुर्वानराः सर्वे किमेतदिति विस्मिताः॥ १६॥ ते सर्वे वानरास्तस्मै राघवायाभ्यवादयन्। काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः॥ १७॥ ऊचुस्ते प्रथमं स्तुत्वा स्तवार्हं सहलक्श्मणम्। गच्छायोध्यामितो वीर विसर्जय च वानरान्॥ १८॥ मैथिलीं सान्त्वयस्वैनामनुरक्तां तपस्विनीम्। शत्रुघ्नं च महात्मानं मातॄः सर्वाः परन्तप॥ १९॥ भ्रातरं पश्य भरतं त्वच्छोकाद् व्रतचारिणम्। अभिषेचय चात्मानं पौरान् गत्वा प्रहर्षय॥ २०॥ एवमुक्त्वा तमामन्त्र्य रामं सौमित्रिणा सह। विमानैः सूर्यसंकाशैर्हृष्टा जग्मुः सुरा दिवम्॥ २१॥ अभिवाद्य च काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान्। लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत् तदा॥ २२॥ ततस्तु सा लक्ष्मणरामपालिता महाचमूर्हृष्टजना यशस्विनी। श्रिया ज्वलन्ती विरराज सर्वतो निशा प्रणीतेव हि शीतरश्मिना॥ २३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे इन्द्रवरदानं नाम त्रयोविंशत्युत्तरशततमः सर्गः ॥६-१२३॥