home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

द्वविंशत्युत्तरशततमः सर्गः ॥६-१२२॥

॥दशरथप्रतिसमादेशः॥

[ श्रीमहादेवस्याज्ञया श्रीरामलक्ष्मणाभ्यां विमाने- नागतस्य राज्ञो दशरथस्याभिवादनं पुत्राभ्यां सीतायै चावश्यकं संदिश्य तस्येन्द्रलोके गमनं च ]

एतच्छ्रुत्वा शुभं वाक्यं राघवेण सुभाषितम्। इदं शुभतरं वाक्यं व्याजहार महेश्वरः॥ १॥ पुष्कराक्ष महाबाहो महावक्षः परन्तप। दिष्ट्या कृतमिदं कर्म त्वया शस्त्रभृतां वर॥ २॥ दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः। अपवृत्तं त्वया संख्ये राम रावणजं भयम्॥ ३॥ आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम्। कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम्॥ ४॥ प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम्। इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल॥ ५॥ इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः। ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि॥ ६॥ एष राजा विमानस्थः पिता दशरथस्तव। काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः॥ ७॥ इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः। लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय॥ ८॥ महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः। विमानशिखरस्थस्य प्रणाममकरोत् पितुः॥ ९॥ दीप्यमानं स्वया लक्ष्म्या विरजोऽम्बरधारिणम्। लक्ष्मणेन सह भ्रात्रा ददर्श पितरं विभुः॥ १०॥ हर्षेण महताविष्टो विमानस्थो महीपतिः। प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा॥ ११॥ आरोप्याङ्कं महाबाहुर्वरासनगतः प्रभुः। बाहुभ्यां सम्परिष्वज्य ततो वाक्यं समाददे॥ १२॥ न मे स्वर्गो बहुमतः सम्मानश्च सुरर्षिभिः। त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते॥ १३॥ कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर। तव प्रव्राजनार्थानि स्थितानि हृदये मम॥ १४॥ त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम्। अद्य दुःखाद् विमुक्तोऽस्मि नीहारादिव भास्करः॥ १५॥ तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मना। अष्टावक्रेण धर्मात्मा कहोलो ब्राह्मणो यथा॥ १६॥ इदानीं तु विजानामि यथा सौम्य सुरेश्वरैः। वधार्थं रावणस्येदं विहितं पुरुषोत्तम॥ १७॥ सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम्। वनान्निवृत्तं संहृष्टा द्रक्ष्यत्यरिनिषूदन॥ १८॥ सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम्। जलार्द्रमभिषिक्तं च द्रक्ष्यन्ते वसुधाधिपम्॥ १९॥ अनुरक्तेन बलिना शुचिना धर्मचारिणा। इच्छामि त्वामहं द्रष्टुं भरतेन समागतम्॥ २०॥ चतुर्दश समाः सौम्य वने निर्यापितास्त्वया। वसता सीतया सार्धं लक्ष्मणेन च धीमता॥ २१॥ निवृत्तवनवासोऽसि प्रतिज्ञा सफला कृता। रावणं च रणे हत्वा देवास्ते परितोषिताः॥ २२॥ कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन। भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि॥ २३॥ इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत्। कुरु प्रसादं धर्मज्ञ कैकय्या भरतस्य च॥ २४॥ सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया। स शापः कैकयीं घोरः सपुत्रां न स्पृशेत् प्रभो॥ २५॥ स तथेति महाराजो राममुक्त्वा कृताञ्जलिम्। लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह॥ २६॥ रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया। कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते॥ २७॥ धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि। रामे प्रसन्ने स्वर्गं च महिमानं तथैव च॥ २८॥ रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन। रामः सर्वस्य लोकस्य शुभेष्वभिरतः सदा॥ २९॥ एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः। अभिवाद्य महात्मानमर्चन्ति पुरुषोत्तमम्॥ ३०॥ एतत् तदुक्तमव्यक्तमक्षरं ब्रह्मसम्मितम्। देवानां हृदयं सौम्य गुह्यं रामः परन्तपः॥ ३१॥ अवाप्तं धर्माचरणं यशश्च विपुलं त्वया। रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया॥ ३२॥ स तथोक्त्वा महाबाहुर्लख्श्मणं प्राञ्जलिं स्थितम्। उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम्॥ ३३॥ कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति। रामेणे त्वद्विशुद्ध्यर्थं कृतमेतद्धितैषिणा॥ ३४॥ न त्वं सुभ्रु समाधेया पतिशुश्रूषणं प्रति। अवश्यं तु मया वाच्यमेष ते दैवतं परम्॥ ३५॥ इति प्रतिसमादिश्य पुत्रौ सीतां तथा स्नुषाम्। इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन्॥ ३६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे दशरथप्रतिसमादेशो नाम द्वाविंशत्युत्तरशततमः सर्गः ॥६-१२२॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध